अध्याय 103, Verse 1
ब्रह्मोवाच ।
शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् ।
तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद ॥ १०३.१॥
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् ।
तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद ॥ १०३.१॥
आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः ।
गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥ १०३.२॥
हयमेध उपक्रान्ते ऋत्विग्भिरृषिभिर्वृते ।
तस्य राज्ञो महाबाहोर्वसिष्ठस्तु पुरोहितः ॥ १०३.३॥
तद्यज्ञवाटमगमद् दानवोऽथ हिरण्यकः ।
तं दानवमभिप्रेक्ष्य देवास्त्विन्द्रपुरोगमाः ॥ १०३.४॥
भीताः केचिद् दिवं जग्मुर्हव्यवाट् शमिमाविशत् ।
अश्वत्थं विष्णुरगमद् भानुरर्कं वटं शिवः ॥ १०३.५॥
सोमः पलाशमगमद् गङ्गाम्भो हव्यवाहनः ।
अश्विनौ तु हयं गृह्य वायसोऽभूद् यमः स्वयम् ॥ १०३.६॥
एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः ।
यष्टिमादाय दैतेयान् न्यवारयद् अथाज्ञया ॥ १०३.७॥
ततः प्रवृत्तः पुनरेव यज्ञो ।
दैत्यो गतः स्वेन बलेन युक्तः ।
इमानि तीर्थानि ततः शुभानि ।
दशाश्वमेधस्य फलानि दद्युः ॥ १०३.८॥
प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः ।
आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥ १०३.९॥
देवाश्च ऋषयः सर्वे निवृत्ते मखविस्तरे ।
तुष्टाः प्रोचुर्वसिष्ठं तं यजमानं प्रियव्रतम् ॥ १०३.१०॥
तांश्च वृक्षांस्तां च गङ्गां मुदा युक्ताः पुनः पुनः ।
हयमेधस्य निष्पत्त्यै एते याता इतस्ततः ॥ १०३.११॥
हयमेधफलं दद्युस्तीर्थानीत्यवदन् सुराः ।
तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद ।
हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥ १०३.१२॥