Brahma Purana

अध्याय 102

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 102, Verse 1

ब्रह्मोवाच ।

सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ।

एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥ १०२.१॥

Brahma Purana

अध्याय 102, Verse 2

तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् ।

सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥ १०२.२॥

Brahma Purana

अध्याय 102, Verse 3

एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः ।

सर्वासामुत्तमां कांचिन् निर्ममे लोकसुन्दरीम् ॥ १०२.३॥

Brahma Purana

अध्याय 102, Verse 4

तां दृष्ट्वा विकृता बुद्धिर्ममासीन् मुनिसत्तम ।

गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥ १०२.४॥

Brahma Purana

अध्याय 102, Verse 5

मृगीभूता तु सा बाला मृगोऽहमभवं तदा ।

मृगव्याधोऽभवच्छम्भुर्धर्मसंरक्षणाय च ॥ १०२.५॥

Brahma Purana

अध्याय 102, Verse 6

ता मद्भीताः पञ्च सुता गङ्गामीयुर्महानदीम् ।

ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः ॥ १०२.६॥

Brahma Purana

अध्याय 102, Verse 7

धनुर्गृहीत्वा सशरमीशोऽपि मृगरूपिणम् ।

मामुवाच वधिष्ये त्वां मृगव्याधस्तदा हरः ॥ १०२.७॥

Brahma Purana

अध्याय 102, Verse 8

तत्कर्मणो निवृत्तोऽहं प्रादां कन्यां विवस्वते ।

सावित्र्याद्याः पञ्च सुता नदीरूपेण संगताः ॥ १०२.८॥

Brahma Purana

अध्याय 102, Verse 9

ता आगताः पुनश्चापि स्वर्गं लोकं ममान्तिकम् ।

यत्र ताः संगता देव्या पञ्च तीर्थानि नारद ॥ १०२.९॥

Brahma Purana

अध्याय 102, Verse 10

संगतानि च पुण्यानि पञ्च नद्यः सरस्वती ।

तेषु स्नानं तथा दानं यत् किंचित् कुरुते नरः ॥ १०२.१०॥

Brahma Purana

अध्याय 102, Verse 11

सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम् ।

तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम् ।

स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम् ॥ १०२.११॥