अध्याय 101, Verse 1
ब्रह्मोवाच ।
पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः ।
स्मरणाद् एव पापानां नाशनं किं तु दर्शनात् ॥ १०१.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः ।
स्मरणाद् एव पापानां नाशनं किं तु दर्शनात् ॥ १०१.१॥
पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् ।
यदृच्छया देवनदीं हसन्तीं ब्रह्मणोऽन्तिके ।
तां दृष्ट्वा रूपसम्पन्नामुर्वशीं प्राह भूपतिः ॥ १०१.२॥
राजोवाच ।
केयं रूपवती साध्वी स्थितेयं ब्रह्मणोऽन्तिके ।
सर्वासामुत्तमा योषिद् दीपयन्ती सभामिमाम् ॥ १०१.३॥
ब्रह्मोवाच ।
उर्वशी प्राह राजानमियं देवनदी शुभा ।
सरस्वती ब्रह्मसुता नित्यमेति च याति च ।
तच्छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥ १०१.४॥
ब्रह्मोवाच ।
उर्वशी पुनरप्याह राजानं भूरिदक्षिणम् ॥ १०१.५॥
उर्वश्युवाच ।
आनीयते महाराज तस्याः सर्वं निवेद्य च ॥ १०१.६॥
ब्रह्मोवाच ।
ततस्तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम् ।
सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी ॥ १०१.७॥
सरस्वत्यपि तन् मेने उर्वश्या यन् निवेदितम् ।
सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः ॥ १०१.८॥
सरस्वत्यास्ततस्तीरे स रेमे बहुलाः समाः ।
सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः ॥ १०१.९॥
तां गच्छन्तीं नृपगृहं नित्यमेव सरस्वतीम् ।
सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥ १०१.१०॥
तस्यै ददावहं शापं भूया इति महानदी ।
मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम् ॥ १०१.११॥
कमण्डलुभवां पूतां मातरं लोकपावनीम् ।
तापत्रयोपशमनीमैहिकामुष्मिकप्रदाम् ॥ १०१.१२॥
सा गत्वा गौतमीं देवीं प्राह मच्छापमादितः ।
गङ्गापि मामुवाचेदं विशापां कर्तुमर्हसि ॥ १०१.१३॥
न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि ।
स्त्रीणामेष स्वभावो वै पुंस्कामा योषितो यतः ॥ १०१.१४॥
स्वभावचपला ब्रह्मन् योषितः सकला अपि ।
त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥ १०१.१५॥
विडम्बयति कं वा न कामो वापि स्वभावतः ।
ततो विशापमवदं दृश्यापि स्यात् सरस्वती ॥ १०१.१६॥
तस्माच्छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती ।
यत्रैषा संगता देवी गङ्गायां शापविह्वला ॥ १०१.१७॥
तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः ।
तपस्तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥ १०१.१८॥
सर्वान् कामान् अथावाप गङ्गायाश्च प्रसादतः ।
ततः प्रभृति तत् तीर्थं पुरूरवसमुच्यते ॥ १०१.१९॥
सरस्वतीसंगमं च ब्रह्मतीर्थं तद् उच्यते ।
सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥ १०१.२०॥