अध्याय 100, Verse 1
ब्रह्मोवाच ।
सुपर्णासंगमं नाम काद्रवासंगमं तथा ।
महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥ १००.१॥
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सुपर्णासंगमं नाम काद्रवासंगमं तथा ।
महेश्वरो यत्र देवो गङ्गापुलिनमाश्रितः ॥ १००.१॥
अग्निकुण्डं च तत्रैव रौद्रं वैष्णवमेव च ।
सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा ॥ १००.२॥
अप्सरा च नदी यत्र संगता गङ्गया तथा ।
तत्तीर्थस्मरणाद् एव कृतकृत्यो भवेन् नरः ॥ १००.३॥
सर्वपापप्रशमनं शृणु यत्नेन नारद ।
इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः ।
दत्तार्धतपसः सर्वे प्रोचुस्ते काश्यपं मुनिम् ॥ १००.४॥
वालखिल्या ऊचुः ।
पुत्रमुत्पादयानेन इन्द्रदर्पहरं शुभम् ।
तपसोऽर्धं तु दास्यामस्तथेत्याह मुनिस्तु तान् ॥ १००.५॥
सुपर्णायां ततो गर्भमादधे स प्रजापतिः ।
कद्र्वां चैव शनैर्ब्रह्मन् सर्पाणां सर्पमातरि ॥ १००.६॥
ते गर्भिण्यावुभे आह गन्तुकामः प्रजापतिः ।
अपराधो न च क्वापि कार्यो गमनमेव च ॥ १००.७॥
अन्यत्र गमनाच्छापो भविष्यति न संशयः ॥ १००.८॥
ब्रह्मोवाच ।
इत्युक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे ।
तदैव जग्मतुः सत्त्रम् ऋषीणां भावितात्मनाम् ॥ १००.९॥
ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् ।
उन्मत्ते ते उभे नित्यं वयःसम्पत्तिगर्विते ॥ १००.१०॥
निवार्यमाणे बहुशो मुनिभिस्तत्त्वदर्शिभिः ।
विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च ॥ १००.११॥
योषितां दुर्विलसितं कः संवरितुमीश्वरः ।
ते दृष्ट्वा चुक्षुभुर्विप्रा अपमार्गरते उभे ॥ १००.१२॥
अपमार्गस्थिते यस्माद् आपगे हि भविष्यथः ।
सुपर्णा चैव कद्रूश्च नद्यौ ते सम्बभूवतुः ॥ १००.१३॥
स कदाचिद् गृहं प्रायात् कश्यपोऽथ प्रजापतिः ।
ऋषिभ्यस्तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम् ॥ १००.१४॥
श्रुत्वा तु विस्मयाविष्टः किं करोमीत्यचिन्तयत् ।
ऋषिभ्यः कथयामास वालखिल्या इति श्रुताः ॥ १००.१५॥
त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् ।
तत्र स्तुहि महेशानं पुनर्भार्ये भविष्यतः ॥ १००.१६॥
ब्रह्महत्याभयाद् एव यत्र देवो महेश्वरः ।
गङ्गामध्ये सदा ह्यास्ते मध्यमेश्वरसंज्ञया ॥ १००.१७॥
तथेत्युक्त्वा कश्यपोऽपि स्नात्वा गङ्गां जितव्रतः ।
तुष्टाव स्तवनैः पुण्यैर्देवदेवं महेश्वरम् ॥ १००.१८॥
कश्यप उवाच ।
लोकत्रयैकाधिपतेर्न यस्य ।
कुत्रापि वस्तुन्यभिमानलेशः ।
स सिद्धनाथोऽखिलविश्वकर्ता ।
भर्ता शिवाया भवतु प्रसन्नः ॥ १००.१९॥
तापत्रयोष्णद्युतितापितानाम् ।
इतस्ततो वै परिधावतां च ।
शरीरिणां स्थावरजङ्गमानाम् ।
त्वमेव दुःखव्यपनोददक्षः ॥ १००.२०॥
सत्त्वादियोगस्त्रिविधोऽपि यस्य ।
शक्रादिभिर्वक्तुमशक्य एव ।
विचित्रवृत्तिं परिचिन्त्य सोमम् ।
सुखी सदा दानपरो वरेण्यः ॥ १००.२१॥
ब्रह्मोवाच ।
इत्यादिस्तुतिभिर्देवः स्तुतो गौरीपतिः शिवः ।
प्रसन्नो ह्यददाच्छम्भुः कश्यपाय वरान् बहून् ॥ १००.२२॥
भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते ।
नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम् ॥ १००.२३॥
तत्संगमनमात्रेण ताभ्यां भूयात् स्वकं वपुः ।
ते गर्भिण्यौ पुनर्जाते गङ्गायाश्च प्रसादतः ॥ १००.२४॥
ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः ।
आह्वयामास तान् विप्रान् गौतमीतीरमाश्रितान् ॥ १००.२५॥
सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः ।
ब्राह्मणान् पूजयामास विधिदृष्टेन कर्मणा ॥ १००.२६॥
भुक्तवत्स्वथ विप्रेषु कश्यपस्याथ मन्दिरे ।
भर्तृसमीपोपविष्टा कद्रूर्विप्रान् निरीक्ष्य च ॥ १००.२७॥
ततः कद्रूरृषीन् अक्ष्णा प्राहसत् ते च चुक्षुभुः ।
येनाक्ष्णा हसिता पापे भज्यतां तेऽक्षि पापवत् ॥ १००.२८॥
काणाभवत् ततः कद्रूः सर्पमातेति योच्यते ।
ततः प्रसादयामास कश्यपो भगवान् ऋषीन् ॥ १००.२९॥
ततः प्रसन्नास्ते प्रोचुर्गौतमी सरितां वरा ।
अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात् ॥ १००.३०॥