अध्याय 10, Verse 1
लोमहर्षण उवाच ।
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ १०.१॥
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः ।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ १०.२॥
सत्यवादी पुण्यमतिः सम्यक्संवृतमैथुनः ।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥ १०.३॥
तं ब्रह्मवादिनं शान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ १०.४॥
तया सहावसद् राजा दश वर्षाणि पञ्च च ।
षट् पञ्च सप्त चाष्टौ च दश चाष्टौ च भो द्विजाः ॥ १०.५॥
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥ १०.६॥
उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् ।
गन्धमादनपादेषु मेरुशृङ्गे तथोत्तरे ॥ १०.७॥
एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥ १०.८॥
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥ १०.९॥
एवम्प्रभावो राजासीद् ऐलस्तु नरसत्तमः ।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ॥ १०.१०॥
लोमहर्षण उवाच ।
ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।
गन्धर्वलोके विदिता आयुर्धीमान् अमावसुः ॥ १०.११॥
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च बह्वायुश्चोर्वशीसुताः ॥ १०.१२॥
अमावसोस्तु दायादो भीमो राजाथ राजराट् ।
श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः ॥ १०.१३॥
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून् महाबलः ।
सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसम्भवः ॥ १०.१४॥
आजह्रे यो महत् सत्त्रं सर्पमेधं महामखम् ।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह ॥ १०.१५॥
नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः ।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ १०.१६॥
सौहोत्रिरशपद् गङ्गां क्रुद्धो राजा द्विजोत्तमाः ।
एष ते विफलं यत्नं पिबन्न् अम्भः करोम्यहम् ॥ १०.१७॥
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥ १०.१८॥
उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम् ।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥ १०.१९॥
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता ।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ॥ १०.२०॥
जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम् ।
कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ १०.२१॥
अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ॥ १०.२२॥
कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।
कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ॥ १०.२३॥
बल्लवैः सह संवृद्धो राजा वनचरः सदा ।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥ १०.२४॥
लभेयमिति तं शक्रस्त्रासाद् अभ्येत्य जज्ञिवान् ।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत ॥ १०.२५॥
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ १०.२६॥
पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः ।
स गाधिरभवद् राजा मघवान् कौशिकः स्वयम् ॥ १०.२७॥
पौरा यस्याभवद् भार्या गाधिस्तस्यामजायत ।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥ १०.२८॥
तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः ।
तस्याः प्रीतः स वै भर्ता भार्गवो भृगुनन्दनः ॥ १०.२९॥
पुत्रार्थं साधयामास चरुं गाधेस्तथैव च ।
उवाचाहूय तां भार्याम् ऋचीको भार्गवस्तदा ॥ १०.३०॥