अध्याय 1, Verse 1
यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते ।
यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् ।
तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
यस्मात् सर्वमिदं प्रपञ्चरचितं मायाजगज्जायते ।
यस्मिंस्तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः ।
यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवम् ।
तं वन्दे पुरुषोत्तमाख्यममलं नित्यं विभुं निश्चलम् ॥ १.१॥
यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् ।
नित्यानन्दमयं प्रसन्नममलं सर्वेश्वरं निर्गुणम् ।
व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् ।
तं संसारविनाशहेतुमजरं वन्दे हरिं मुक्तिदम् ॥ १.२॥
सुपुण्ये नैमिषारण्ये पवित्रे सुमनोहरे ।
नानामुनिजनाकीर्णे नानापुष्पोपशोभिते ॥ १.३॥
सरलैः कर्णिकारैश्च पनसैर्धवखादिरैः ।
आम्रजम्बूकपित्थैश्च न्यग्रोधैर्देवदारुभिः ॥ १.४॥
अश्वत्थैः पारिजातैश्च चन्दनागुरुपाटलैः ।
बकुलैः सप्तपर्णैश्च पुंनागैर्नागकेसरैः ॥ १.५॥
शालैस्तालैस्तमालैश्च नारिकेलैस्तथार्जुनैः ।
अन्यैश्च बहुभिर्वृक्षैश्चम्पकाद्यैश्च शोभिते ॥ १.६॥
नानापक्षिगणाकीर्णे नानामृगगणैर्युते ।
नानाजलाशयैः पुण्यैर्दीर्घिकाद्यैरलंकृते ॥ १.७॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च जातिभिः ।
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ॥ १.८॥
सम्पन्नैर्गोकुलैश्चैव सर्वत्र समलंकृते ।
यवगोधूमचणकैर्माषमुद्गतिलेक्षुभिः ॥ १.९॥
चीनकाद्यैस्तथा मेध्यैः सस्यैश्चान्यैश्च शोभिते ।
तत्र दीप्ते हुतवहे हूयमाने महामखे ॥ १.१०॥
यजतां नैमिषेयाणां सत्त्रे द्वादशवार्षिके ।
आजग्मुस्तत्र मुनयस्तथान्येऽपि द्विजातयः ॥ १.११॥
तान् आगतान् द्विजांस्ते तु पूजां चक्रुर्यथोचिताम् ।
तेषु तत्रोपविष्टेषु ऋत्विग्भिः सहितेषु च ॥ १.१२॥
तत्राजगाम सूतस्तु मतिमांल्लोमहर्षणः ।
तं दृष्ट्वा ते मुनिवराः पूजां चक्रुर्मुदान्विताः ॥ १.१३॥
सोऽपि तान् प्रतिपूज्यैव संविवेश वरासने ।
कथां चक्रुस्तदान्योन्यं सूतेन सहिता द्विजाः ॥ १.१४॥
कथान्ते व्यासशिष्यं ते पप्रच्छुः संशयं मुदा ।
ऋत्विग्भिः सहिताः सर्वे सदस्यैः सह दीक्षिताः ॥ १.१५॥
मुनय ऊचुः ।
पुराणागमशास्त्राणि सेतिहासानि सत्तम ।
जानासि देवदैत्यानां चरितं जन्म कर्म च ॥ १.१६॥
न तेऽस्त्यविदितं किंचिद् वेदे शास्त्रे च भारते ।
पुराणे मोक्षशास्त्रे च सर्वज्ञोऽसि महामते ॥ १.१७॥
यथापूर्वमिदं सर्वमुत्पन्नं सचराचरम् ।
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ॥ १.१८॥
श्रोतुमिच्छामहे सूत ब्रूहि सर्वं यथा जगत् ।
बभूव भूयश्च यथा महाभाग भविष्यति ॥ १.१९॥
यतश्चैव जगत् सूत यतश्चैव चराचरम् ।
लीनमासीत् तथा यत्र लयमेष्यति यत्र च ॥ १.२०॥
लोमहर्षण उवाच ।
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १.२१॥
नमो हिरण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकर्मणे ॥ १.२२॥
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे ॥ १.२३॥
सर्गस्थितिविनाशाय जगतो योऽजरामरः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ १.२४॥
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ १.२५॥
ज्ञानस्वरूपमत्यन्तं निर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ १.२६॥
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
सर्वज्ञं जगतामीशमजमक्षयमव्ययम् ॥ १.२७॥
आद्यं सुसूक्ष्मं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ॥ १.२८॥
सर्वशास्त्रार्थतत्त्वज्ञं पराशरसुतं प्रभुम् ।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥ १.२९॥
कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥ १.३०॥