Bhikshuka Upanishad

Complete Upanishad

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhikshuka Upanishad

Complete Upanishad, Verse 1

भिक्षुकोपनिषत् ६३

Bhikshuka Upanishad

Complete Upanishad, Verse 2

भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा ।

तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥

Bhikshuka Upanishad

Complete Upanishad, Verse 3

ॐ पूर्णमदः पूर्णमिदं

पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय

पूर्णमेवावशिष्यते ॥

Bhikshuka Upanishad

Complete Upanishad, Verse 4

ॐ शान्तिः शान्तिः शान्तिः ॥

Bhikshuka Upanishad

Complete Upanishad, Verse 5

ॐ अथ भिक्षूणां मोक्षार्थिनां

कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः ।

कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्ट -

प्रभृतयोऽष्टौ ग्रासांश्वरन्तो

योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ बहूदका नाम त्रिदण्डकमण्डलुशिखा -

यज्ञोपवीतकाषायवस्त्रधारिणो

ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ

ग्रासान्भैक्षाचरणं कृत्वा

योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं

क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः ।

गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा

योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरत -

दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ

ग्रासांश्वरन्तो

योगमार्गे मोक्षमेव प्रार्थयन्ते ।

वृक्षमूले शून्यगृहे श्मशानवासिनो वा

साम्बरा वा दिगम्बरा वा ।

न तेषां धर्माधर्मौ लाभालाभौ

शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः

सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति ।

अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः

शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे

यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह -

तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिन -

गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे

सम्यक्सम्पन्नाः शुद्धमानसाः परमहंसाचरणेन

संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥

Bhikshuka Upanishad

Complete Upanishad, Verse 6

ॐ पूर्णमदः पूर्णमिदं

पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय

पूर्णमेवावशिष्यते ॥

Bhikshuka Upanishad

Complete Upanishad, Verse 7

ॐ शान्तिः शान्तिः शान्तिः ॥

Bhikshuka Upanishad

Complete Upanishad, Verse 8

इति भिक्षुकोपनिषत्समाप्ता ॥