Bhavana Upanishad

Complete Upanishad

Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhavana Upanishad

Complete Upanishad, Verse 1

भावनोपनिषत् अथवा श्रीचक्रोपनिषत्

Bhavana Upanishad

Complete Upanishad, Verse 2

स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् ।

बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥

Bhavana Upanishad

Complete Upanishad, Verse 3

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

Bhavana Upanishad

Complete Upanishad, Verse 4

अथ भावनोपनिषत् ।

हरिः ॐ ।

आत्मानमखण्डमण्डलाकारमवृत्य सकलब्रह्माण्डमण्डलं

स्वप्रकाशं ध्यायेत् ।

ॐ श्रीगुरुः सर्वकारणभूता शक्तिः ।

तेन नवरन्ध्ररूपो देहः ।

नवशक्तिरूपं श्रीचक्रम् ।

वाराही पितृरूपा ।

कुरुकुल्ला बलिदेवता माता ।

पुरुषार्थाः

सागराः ।

देहो नवरत्नद्वीपः ।

त्वगादिसप्तधातुभिरनेकैः

संयुक्ताः सङ्कल्पाः कल्पतरवः ।

तेजः कल्पकोद्यानम् ।

रसनया

भाव्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्रसाः

षडृतवः क्रियाशक्तिः पीठम् ।

कुण्डलिनी ज्ञानशक्तिर्गृहम् ।

इच्छाशक्तिर्महात्रिपुरसुन्दरी ।

ज्ञाता होता ज्ञानमग्निः

(ज्ञानमर्घ्यम्) ज्ञेयं हविः ।

ज्ञातृज्ञानज्ञेयानामभेदभावनं

श्रीचक्रपूजनम् ।

नियतिसहिताः श‍ृङ्गारादयो नव रसा

अणिमादयः ।

कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया

ब्राह्म्याद्यष्टशक्तयः ।

(आधरनवकम् मुद्राशक्तयः ।

)

पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थमनोविकाराः

(कामाकर्षिण्यादि) षोडष शक्तयः ।

वचनादानगमनविसर्गानन्दहानो(पादानो)पेक्षा(ख्य)-

भुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ ।

अलम्बुसा

कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी

पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश

नाड्यः ।

सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः ।

प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जया इति

दश वायवः ।

सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा देवताः ।

एतद्वायुदशकसंसर्गोपाधिभेधेन रेचकपूरकशोषकदाहप्लावका

(रेचकः पाचकः शोषको दाहकः प्लावका इति) प्राणमुख्यत्वेन

पञ्चधोऽस्ति (जठराग्निर्भवति) ।

क्षारको दारकः क्षोभको

मोहको जृम्भक इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति ।

तेन मनुष्याणां मोहको दाहको (नागप्राधान्येन पञ्चबिधास्ते

मनुष्याणां देहगा) भक्ष्यभोज्यशोष्यलेह्यपेयात्मकं

चतुर्विधमन्नं (पञ्चविधमन्नं) पाचयति ।

एता

दश वह्निकलाः सर्वज्ञत्वाद्यन्तर्दशारगा देवताः ।

शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्तौ ।

शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा

मन इक्षुधनुः ।

वश्यो वाणो रागः पाशः ।

द्वेषोऽङ्कुशः ।

अव्यक्तमहत्तत्त्वमहदहङ्कार इति कामेश्वरी-वज्रेश्वरी-

भगमालिन्योऽन्तस्त्रिकोणाग्रगा देवताः ।

(निरुपाधिकसंविदेव

कामेश्वर ।

सदानन्दपूर्ण स्वात्मेव परदेवता ललिता ।

सिद्धिः ।

भावनायाः क्रिया उपचरः ।

अहं त्वमस्ति नास्ति

कर्तव्यमकर्तव्यमुपासितव्यमिति विकल्पानामात्मनि विलापनम् होमः ।

भवनाविषयाणामभेदभवना तर्पणम् ।

) पञ्चदशतिथिरूपेण

कालस्य परिणामावलोकनस्थितिः पञ्चदशनित्याः ।

श्रद्धानुरूपा

धीर्देवता ।

तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा

देवता ।

सलिलमिति लौहित्यकारणं सत्त्वम् ।

कर्तव्यमकर्तव्यमिति

भावनायुक्त उपचारः ।

अस्ति नास्तीति कर्तव्यतानूपचारः ।

बाह्याभ्यन्तःकरणानां रूपग्रहणयोग्यतास्त्त्वित्यावाहनम् ।

तस्य बाह्याभ्यन्तःकरणानामेकरूपविषयग्रहणमासनम् ।

रक्तशुक्लपदैकीकरणं पाद्यम् ।

उज्ज्वलदामोदानन्दासनदानमर्घ्यम् ।

स्वच्छं स्वतःसिद्धमित्याचमनीयम् ।

चिच्चन्द्रमयीति

सर्वाङ्गस्रवणं स्नानम् ।

चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं

वस्त्रम् ।

प्रत्येकं सप्तविंशतिधा

भिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी

ब्रह्मसूत्रम् ।

स्वव्यतिरिक्तवस्तुसङ्गरहितस्मरणां विभूषणम् ।

सच्चित्सुखपरिपूर्णतास्मरणं गन्धः ।

समस्तविषयाणां

मनसः स्थैर्येणानुसंधानं कुसुमम् ।

तेषामेव सर्वदा स्वीकरणं

धूपः ।

पवनावच्छिन्नोत्ध्वज्वलनसच्चिदुल्काकाशदेहो दीपः ।

समस्तयातायातवर्ज्यं नैवेद्यम् ।

अवस्थात्रयाणामेकीकरणं ताम्बूलम् ।

मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं

गतागतरूपेण प्रादक्षिण्यम् ।

तुर्यावस्था नमस्कारः ।

देहशून्यप्रमातृतानिमज्जनं बलिहरणम् ।

सत्यमस्ति

लर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः ।

स्वयं

तत्पादुकानिमज्जनं परिपूर्णध्यानम् ।

एवं मुहूर्तत्रयं (मुहूर्तद्वितयं

मुहूर्तमात्रं वा) भावनापरो जीवन्मुक्तो भवति स एव शिवयोगीति

गद्यते ।

आदिमतेनान्तश्चक्रभावनाः ।

तस्य देवतात्मैक्यसिद्धिः ।

चिन्तितकार्याण्ययत्नेन सिद्ध्यन्ति ।

स एव शिवयोगीति कथ्यते ।

कादिहादिमतोक्तेन भावना प्रतिपादिता ।

जीवन्मुक्तो भवति ।

य एवं

वेद ।

इत्युपनिषत् ।

(सोऽथर्वशिरोऽधीते ।

)

Bhavana Upanishad

Complete Upanishad, Verse 5

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

Bhavana Upanishad

Complete Upanishad, Verse 6

इत्यथर्वणवेदे भावनोपनिषत्सम्पूर्णा ॥