Bhasma Jabala Upanishad

Complete Upanishad

Containing 1 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhasma Jabala Upanishad

Complete Upanishad, Verse 1

भस्मजाबालोपनिषत्

यत्साम्यज्ञानकालाग्निस्वातिरिक्तास्तिताभ्रमम् ।

करोति भस्म निःशेषं तद्ब्रह्मैवास्मि केवलम् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ जाबालो भुसुण्डः कैलासशिखरावासमोंकारस्वरूपिणं

महादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं

व्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धूलितविग्रहं

तिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसम्पूर्णपञ्चविध-

पञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं

शातं निरञ्जनमनामयं हुंफट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं

हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थं

ब्रह्मविष्णुरुद्रातीतमेकमाशास्यं भगवन्तं शिवं प्रणम्य

मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गः

कृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य

त्रिपुण्ड्रविधिं यस्मादन्यानप्रेक्षमेव मोक्षोपलब्धिः ।

किं भस्मनो द्रव्यम् ।

कानि स्थानानि ।

मनवोऽप्यत्र के वा ।

कति वा तस्य धारणम् ।

के वात्राधिकारिणः ।

नियमस्तेषां

को वा ।

मामन्तेवासिनमनुशासयामोक्षमिति ।

अथ स होवाच

भगवान्परमेश्वरः परमकारुणिकः प्रमथान्सुरानपि

सोऽन्वीक्ष्य पूतं प्रातरुदयाद्गोमयं ब्रह्मपर्णे निधाय

त्र्यम्बकमिति मन्त्रेण शोषयेत् ।

येन केनापि तेजसा

तत्स्वगृह्योक्तमार्गेण प्रतिष्ठाप्य वह्निं तत्र तद्गोमयद्रव्यं

निधाय सोमाय स्वाहेति मन्त्रेण ततस्तिलब्रीहिभिः साज्यैर्जुहुयात् ।

अयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा ।

तत्राज्यस्य पर्णमयी

जुहूर्भवति ।

तेन न पापं श‍ृणोति ।

तद्घोममन्त्रस्र्यम्बकमित्येव

अन्ते स्विष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् ।

तद्भस्म गायत्र्या सम्प्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मये

वा पात्रे निधाय रुद्रमन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संस्थापयेत् ।

ततो भोजयेद्ब्राह्मणान् ।

ततः स्वयं पूतो भवति ।

मानस्तोक इति सद्यो

जातमित्यादि पञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्म वायुरिति

भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म देवा भस्म

ऋषयो भस्म ।

सर्वं ह वा एतदिदं भस्म ।

पूतं पावनं नमामि

सद्यः समस्ताघशासकमिति शिरसाभिनम्य ।

पूते वामहस्ते

वामदेवायेति निधाय त्र्यम्बकमिति सम्प्रोक्ष्य शुद्धं शुद्धेनेति

संमृज्य संशोध्य तेनैवापादशीर्षमुद्धूलनमाचरेत् ।

तत्र ब्रह्ममन्त्राः पञ्च ।

ततः शेषस्य भस्मनो विनियोगः ।

तर्जनीमध्यमानामिकाभिरग्नेर्भस्मासीति भस्म संगृह्य

मूर्धानमिति मूर्धन्यग्रे न्यसेत् ।

त्र्यम्बकमिति ललाटे

नीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वे त्र्यायुषमिति

वामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोः

श‍ृणवामेति वक्त्रे प्रब्रवामेति हृदये आत्मन इति नाभौ

नाभिरिति मन्त्रेण दक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेति

तन्मणिबन्धे शर्वायेति तत्करपृष्ठे पशुपतय इति वामबाहुमूले

उग्रायेति तन्मध्ये अग्रेवधायेति तन्मणिबन्धे दूरेवधायेति

तत्करपृष्ठे नमो हन्त्र इति अंसे शङ्करायेति यथाक्रमं

भस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रक्षाल्य तद्भस्मापः

पुनन्त्विति पिबेत् ।

नाधो त्याज्यं नाधो त्याज्यम् ।

एतन्मध्याह्नसायाह्नेषु त्रिकालेषु विधिवद्भस्मधारणमप्रमादेन

कार्यम् ।

प्रमादात्पतितो भवति ।

ब्राह्मणानामयमेव धर्मोऽयमेव

धर्मः ।

एवं भस्मधारणमकृत्वा नाश्नीयादापोऽन्नमन्यद्वा ।

प्रमादात्त्यक्त्वा भस्मधारणं न गायत्रीं जपेत् ।

न जुहुयादग्नौ

तर्पयेद्देवानृषीन्पित्रादीन् ।

अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः ।

नित्योऽयं धर्मो

ब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् ।

एतदकरणे

प्रत्यवैति ब्राह्मणः ।

अकृत्वा प्रमादेनैतदष्टोत्तरशतं

जलमध्ये स्थित्वा गायत्रीं जप्त्वोपोषणेनैकेन शुद्धो भवति ।

यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादशसहस्रप्रणवं

जप्त्वा शुद्धो भवति ।

अन्यथेन्द्रो यतीन्सालावृकेभ्यः

पातयति ।

भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमन्यद्वावश्यं

मन्त्रपूतं धार्यम् ।

एतत्प्रातः प्रयुञ्जानो रत्रिकृतात्पापात्पूतो भवति ।

स्वर्णस्तेयात्प्रमुच्यते ।

मध्यन्दिने माध्यन्दिनं

कृत्वोपस्थानान्तं ध्यायमान आदित्याभिमुखोऽधीयानः

सुरापानात्पूतो भवति ।

स्वर्णस्तेयात्पूतो भवति ।

ब्राह्मणवधात्पूतो भवति ।

गोवधात्पूतो भवति ।

अश्ववधात्पूतो भवति ।

गुरुवधात्पूतो भवति ।

मातृवधात्पूतो भवति ।

पितृवधात्पूतो भवति ।

त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति ।

सर्वतीर्थफलमश्नुते ।

अनपब्रुवः सर्वमायुरेति ।

विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।

एवमावर्तयेदुपनिषदमित्याह भगवान्सदाशिवः

साम्बः सदाशिवः साम्बः ॥

इति प्रथमोऽध्यायः