Bhagavata Purana

स्कन्ध ५, अध्याय 1

Containing 746 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

राजोवाच ।

प्रियव्रतो भागवत आत्मारामः कथं मुने ।

गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत् ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिन- मेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश्चावनितलसमवनायातितरां जगृधुः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

ऋषभ उवाच ।

नायं देहो देहभाजां नृलोके कष्टान् कामानर्हते विड्भुजां ये ।

तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

राजोवाच ।

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जित- कर्मबीजानां ऐश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

भरतस्तु महाभागवतो यदा भगवतावनितल- परिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः- स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्या- नसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचार- रूपौदार्यगुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषा- न्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह शिबिकां स महानुभावः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

ब्राह्मण उवाच ।

अकोविदः कोविदवादवादान् वदस्यथो नातिविदां वरिष्ठः ।

न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

रहूगण उवाच ।

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय ।

नमोऽवधूतद्विजबन्धुलिङ्ग- निगूढनित्यानुभवाय तुभ्यम् ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

ब्राह्मण उवाच ।

दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक् ।

स एष सार्थोऽर्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

स होवाच ।

य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पित- कुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभि- र्वियोगसंयोगादि अनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन् दुर्गाध्ववदसुगमेऽध्व- न्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्त- त्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवी- मवरुन्धे ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

राजोवाच ।

उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्य- स्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा- न्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजा- वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ- मलापहोपस्पर्शनामला साक्षाद्भगवत्पदी- त्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैरविरत- भक्तिरुपास्ते ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

एतावानेव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यातः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

राजोवाच ।

यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महा- भागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीमपि कल्पजीविना- माजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रव- च्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत ।

भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो ह्यतदर्हस्तस्य तात जन्मकर्माणि चोपरिष्टा- द्वक्ष्यामः ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

श्रीशुक उवाच ।

तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणमहमित्यभिमान-लक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 1

राजोवाच ।

महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 2

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।

गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 2

स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयाम्बभूव ॥ २॥

Bhagavata Purana

स्कन्ध ५, अध्याय 1, Verse 2

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥