Bhagavata Purana

माहात्म्यम्, अध्याय 5

Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 1

सूत उवाच ।

पितर्युपरते तेन जननी ताडिता भृशम् ।

क्व वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत् ॥ १॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 2

इति तद्वाक्यसन्त्रासाज्जनन्या पुत्रदुःखतः ।

कूपे पातःकृतो रात्रौ तेन सा निधनं गता ॥ २॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 3

गोकर्णस्तीर्थयात्रार्थं निर्गतो योगसंस्थितः ।

न दुःखं न सुखं तस्य न वैरी नापि बान्धवः ॥ ३॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 4

धुन्धुकारी गृहेऽतिष्ठत् पञ्चपण्यवधूवृतः ।

अत्युग्रकर्मकर्ता च तत्पोषणविमूढधीः ॥ ४॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 5

एकदा कुलटास्तास्तु भूषणान्यभिलिप्सवः ।

तदर्थं निर्गतो गेहात् कामान्धो मृत्युमस्मरन् ॥ ५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 5

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये गोकर्णमोक्षवर्णनं नाम पञ्चमोऽध्यायः ॥ ५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 6

यतस्ततश्च संहृत्य वित्तं वेश्म पुनर्गतः ।

ताभ्योऽयच्छत् सुवस्त्राणि भूषणानि कियन्ति च ॥ ६॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 7

बहुवित्तचयं दृष्ट्वा रात्रौ नार्यो व्यचारयन् ।

चौर्यं करोत्यसौ नित्यमतो राजा ग्रहीष्यति ॥ ७॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 8

वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् ।

अतोऽर्थगुप्तये गूढमस्माभिः किं न हन्यते ॥ ८॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 9

निहत्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् ।

इति ता निश्चयं कृत्वा सुप्तं सम्बध्य रश्मिभिः ॥ ९॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 10

पाशं कण्ठे निधायास्य तन्मृत्युमपचक्रमुः ।

त्वरितं न ममारासौ चिन्तायुक्तास्तदाभवन् ॥ १०॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 11

तप्ताङ्गारसमूहांश्च तन्मुखे हि विचिक्षिपुः ।

अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः ॥ ११॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 12

तं देहं मुमुचुर्गर्ते प्रायः साहसिकाः स्त्रियः ।

न ज्ञातं तद्रहस्यं तु केनापीदं तथैव च ॥ १२॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 13

लोकैः पृष्टा वदन्ति स्म दूरं यातः प्रियो हि नः ।

आगमिष्यति वर्षेऽस्मिन् वित्तलोभविकर्षितः ॥ १३॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 14

स्त्रीणां नैव तु विश्वासं दुष्टानां कारयेद्बुधः ।

विश्वासे यः स्थितो मूढः स दुःखैः परिभूयते ॥ १४॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 15

सुधामयं वचो यासां कामिनां रसवर्धनम् ।

हृदयं क्षुरधाराभं प्रियः को नाम योषिताम् ॥ १५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 16

संहृत्य वित्तं ता याताः कुलटा बहुभर्तृकाः ।

धुन्धुकारी बभूवाथ महान् प्रेतः कुकर्मतः ॥ १६॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 17

वात्यारूपधरो नित्यं धावन् दशदिशोऽन्तरम् ।

शीतातपपरिक्लिष्टो निराहारः पिपासितः ॥ १७॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 18

न लेभे शरणं क्वापि हा दैवेति मुहुर्वदन् ।

कियत्कालेन गोकर्णो मृतं लोकादबुध्यत ॥ १८॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 19

अनाथं तं विदित्वैव गयाश्राद्धमचीकरत् ।

यस्मिंस्तीर्थे तु संयाति तत्र श्राद्धमवर्तयत् ॥ १९॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 20

एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् ।

रात्रौ गृहाङ्गणे स्वप्तुमागतोऽलक्षितः परैः ॥ २०॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 21

तत्र सुप्तं स विज्ञाय धुन्धुकारी स्वबान्धवम् ।

निशीथे दर्शयामास महारौद्रतरं वपुः ॥ २१॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 22

सकृन्मेषः सकृद्धस्ती सकृच्च महिषोऽभवत् ।

सकृदिन्द्रः सकृच्चाग्निः पुनश्च पुरुषोऽभवत् ॥ २२॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 23

वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुतः ।

अयं दुर्गतिकः कोऽपि निश्चित्याथ तमब्रवीत् ॥ २३॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 24

गोकर्ण उवाच ।

कस्त्वमुग्रतरो रात्रौ कुतो यातो दशामिमाम् ।

किं वा प्रेतः पिशाचो वा राक्षसोऽसीति शंस नः ॥ २४॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 25

सूत उवाच ।

एवं पृष्टस्तदा तेन रुरोदोच्चैः पुनः पुनः ।

अशक्तो वचनोच्चारे संज्ञामात्रं चकार ह ॥ २५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 26

ततोऽञ्जलौ जलं कृत्वा गोकर्णस्तमुदीरयत् ।

तत्सेकाद्गतपापोऽसौ प्रवक्तुमुपचक्रमे ॥ २६॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 27

प्रेत उवाच ।

अहं भ्राता त्वदीयोऽस्मि धुन्धुकारीति नामतः ।

स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ॥ २७॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 28

कर्मणो नास्ति सङ्ख्या मे महाज्ञाने विवर्तिनः ।

लोकानां हिंसकः सोऽहं स्त्रीभिर्दुःखेन मारितः ॥ २८॥

Bhagavata Purana

माहात्म्यम्, अध्याय 5, Verse 29

अतः प्रेतत्वमापन्नो दुर्दशां च वहाम्यहम् ।

वाताहारेण जीवामि दैवाधीनफलोदयात् ॥ २९॥