Bhagavata Purana

स्कन्ध १२, अध्याय 12

Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 1

सूत उवाच ।

नमो धर्माय महते नमः कृष्णाय वेधसे ।

ब्राह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 2

एतद्वः कथितं विप्रा विष्णोश्चरितमद्भुतम् ।

भवद्भिर्यदहं पृष्टो नराणां पुरुषोचितम् ॥ २॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 3

अत्र सङ्कीर्तितः साक्षात्सर्वपापहरो हरिः ।

नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 4

अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।

ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 5

भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।

पारीक्षितमुपाख्यानं नारदाख्यानमेव च ॥ ५॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 6

प्रायोपवेशो राजर्षेर्विप्रशापात्परीक्षितः ।

शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 7

योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।

अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 8

विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।

पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 9

ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।

ततो ब्रह्माण्डसम्भूतिर्वैराजः पुरुषो यतः ॥ ९॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 10

कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्भवः ।

भुव उद्धरणेऽम्भोधेर्हिरण्याक्षवधो यथा ॥ १०॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 11

ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।

अर्धनारीनरस्याथ यतः स्वायम्भुवो मनुः ॥ ११॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 12

शतरूपा च या स्त्रीणामाद्या प्रकृतिरुत्तमा ।

सन्तानो धर्मपत्नीनां कर्दमस्य प्रजापतेः ॥ १२॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 12

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम द्वादशोऽध्यायः ॥ १२॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 13

अवतारो भगवतः कपिलस्य महात्मनः ।

देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 14

नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।

ध्रुवस्य चरितं पश्चात्पृथोः प्राचीनबर्हिषः ॥ १४॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 15

नारदस्य च संवादस्ततः प्रैयव्रतं द्विजाः ।

नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 16

द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।

ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 17

दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्ततिः ।

यतो देवासुरनरास्तिर्यङ्नगखगादयः ॥ १७॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 18

त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।

दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मनः ॥ १८॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 19

मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।

मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 20

कौर्मं धान्वन्तरं मात्स्यं वामनं च जगत्पतेः ।

क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥ २०॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 21

देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।

इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 22

इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।

सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 23

सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।

खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 24

रामस्य कोसलेन्द्रस्य चरितं किल्बिषापहम् ।

निमेरङ्गपरित्यागो जनकानां च सम्भवः ॥ २४॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 25

रामस्य भार्गवेन्द्रस्य निःक्षत्रकरणं भुवः ।

ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 26

दौष्यन्तेर्भरतस्यापि शन्तनोस्तत्सुतस्य च ।

ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 27

यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।

वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 28

तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।

पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८॥

Bhagavata Purana

स्कन्ध १२, अध्याय 12, Verse 29

तृणावर्तस्य निष्पेषस्तथैव बकवत्सयोः ।

(अघासुरवधो धात्रा वत्सपालावगूहनम् ।

) धेनुकस्य सह भ्रातुः प्रलम्बस्य च सङ्क्षयः ॥ २९॥