Bhagavata Purana

माहात्म्यम्, अध्याय 2

Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 1

नारद उवाच ।

वृथा खेदयसे बाले अहो चिन्ताऽऽतुरा कथम् ।

श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥ १॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 2

द्रौपदी च परित्राता येन कौरवकश्मलात् ।

पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ २॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 2

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥ २॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 3

त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।

त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥ ३॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 4

सत्यादित्रियुगे बोधवैराग्यौ मुक्तिसाधकौ ।

कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी ॥ ४॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 5

इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह ।

परमानन्दचिन्मूर्तिः सुन्दरीं कृष्णवल्लभाम् ॥ ५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 6

बद्ध्वाञ्जलिं त्वया पृष्टं किं करोमीति चैकदा ।

त्वां तदाऽऽज्ञापयत्कृष्णो मद्भक्तान् पोषयेति च ॥ ६॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 7

अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा ।

मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ ॥ ७॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 8

पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च ।

भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥ ८॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 9

मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।

कृतादिद्वापरस्यान्तं महानन्देन संस्थिता ॥ ९॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 10

कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।

त्वदाज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥ १०॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 11

स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।

पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥ ११॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 12

उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।

तथापि चिन्तां मुञ्ज त्वमुपायं चिन्तयाम्यहम् ॥ १२॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 13

कलिना सदृशः कोऽपि युगो नास्ति वरानने ।

तस्मिंस्त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥ १३॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 14

अन्यधर्मांस्तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।

तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ १४॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 15

त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह ।

पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥ १५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 16

येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी ।

न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ १६॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 17

न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।

भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥ १७॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 18

न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।

हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ १८॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 19

नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।

कलौ भक्तिः कलौ भक्तिर्भक्त्या कृष्णः पुरः स्थितः ॥ १९॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 20

भक्तिद्रोहकरा ये च ते सीदन्ति जगत्त्रये ।

दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ २०॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 21

अलं व्रतैरलं तीर्थैरलं योगैरलं मखैः ।

अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ॥ २१॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 22

सूत उवाच ।

इति नारदनिर्णीतं स्वमाहात्म्यं निशम्य सा ।

सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमब्रवीत् ॥ २२॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 23

भक्तिरुवाच ।

अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।

न कदाचिद्विमुञ्जामि चित्ते स्थास्यामि सर्वदा ॥ २३॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 24

कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् ।

पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥ २४॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 25

सूत उवाच ।

तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।

तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥ २५॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 26

मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ।

ज्ञान प्रबुद्ध्यतां शीघ्रं रे वैराग्य प्रबुद्ध्याताम् ॥ २६॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 27

वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः ।

बोध्यमानौ तदा तेन कथञ्चिच्चोत्थितौ बलात् ॥ २७॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 28

नेत्रैरनवलोकन्तौ जृम्भन्तौ सालसावुभौ ।

बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ ॥ २८॥

Bhagavata Purana

माहात्म्यम्, अध्याय 2, Verse 29

क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ ।

ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥ २९॥