Bhagavata Purana

स्कन्ध १२, अध्याय 2

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 1

श्रीशुक उवाच ।

ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।

कालेन बलिना राजन्नङ्क्ष्यत्यायुर्बलं स्मृतिः ॥ १॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 2

वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।

धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ २॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 2

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 3

दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके ।

स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि ॥ ३॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 4

लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् ।

अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ ४॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 5

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।

स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥ ५॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 6

दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।

उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥ ६॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 7

दाक्ष्यं कुटुम्बभरणं यशोऽर्थे धर्मसेवनम् ।

एवं प्रजाभिर्दुष्टाभिराकीर्णे क्षितिमण्डले ॥ ७॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 8

ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः ।

प्रजा हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मभिः ॥ ८॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 9

आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।

शाकमूलामिषक्षौद्रफलपुष्पाष्टिभोजनाः ॥ ९॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 10

अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः ।

शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः ॥ १०॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 11

क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया ।

त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ ११॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 12

क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।

वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 13

पाखण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।

चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु ॥ १३॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 14

शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु ।

गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 15

अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।

विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 16

इत्थं कलौ गतप्राये जनेषु खरधर्मिषु ।

धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति ॥ १६॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 17

चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः ।

धर्मत्राणाय साधूनां जन्मकर्मापनुत्तये ॥ १७॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 18

शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः ।

भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 19

अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः ।

असिनासाधुदमनमष्टैश्वर्यगुणान्वितः ॥ १९॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 20

विचरन्नाशुना क्षोण्यां हयेनाप्रतिमद्युतिः ।

नृपलिङ्गच्छदो दस्यून् कोटिशो निहनिष्यति ॥ २०॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 21

अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।

वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम् ।

पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 22

तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति ।

वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 23

यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः ।

कृतं भविष्यति तदा प्रजा सूतिश्च सात्त्विकी ॥ २३॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 24

यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।

एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 25

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।

ते त उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥ २५॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 26

आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् ।

एतद्वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 27

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।

तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ २७॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 28

तेनैत ऋषयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।

ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः ॥ २८॥

Bhagavata Purana

स्कन्ध १२, अध्याय 2, Verse 29

विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।

तदाविशत्कलिर्लोकं पापे यद्रमते जनः ॥ २९॥