Bhagavata Purana

स्कन्ध ११, अध्याय 19

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 1

श्रीभगवानुवाच ।

यो विद्याश्रुतसम्पन्नः आत्मवान् नानुमानिकः ।

मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 2

ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः ।

स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥ २॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 3

ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम ।

ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ ३॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 4

तपस्तीर्थं जपो दानं पवित्राणीतराणि च ।

नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 5

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।

ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥ ५॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 6

ज्ञानविज्ञानयज्ञेन मामिष्ट्वाऽऽत्मानमात्मनि ।

सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥ ६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 7

त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो मायान्तरापतति नाद्यपवर्गयोर्यत् ।

जन्मादयोऽस्य यदमी तव तस्य किं स्यु- राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 8

उद्धव उवाच ।

ज्ञानं विशुद्धं विपुलं यथैत- द्वैराग्यविज्ञानयुतं पुराणम् ।

आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् ॥ ८॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 9

तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश ।

पश्यामि नान्यच्छरणं तवाङ्घ्रि- द्वन्द्वातपत्रादमृताभिवर्षात् ॥ ९॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 10

दष्टं जनं सम्पतितं बिलेऽस्मिन् कालाहिना क्षुद्रसुखोरुतर्षम् ।

समुद्धरैनं कृपयाऽऽपवर्ग्यै- र्वचोभिरासिञ्च महानुभाव ॥ १०॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 11

श्रीभगवानुवाच ।

इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम् ।

अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुश‍ृण्वताम् ॥ ११॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 12

निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः ।

श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मानपृच्छत ॥ १२॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 13

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान् ।

ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपबृंहितान् ॥ १३॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 14

नवैकादशपञ्चत्रीन् भावान् भूतेषु येन वै ।

ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 15

एतदेव हि विज्ञानं न तथैकेन येन यत् ।

स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥ १५॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 16

आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात् ।

पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 17

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।

प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते ॥ १७॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 18

कर्मणां परिणामित्वादाविरिञ्चादमङ्गलम् ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ १८॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 19

भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ ।

पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 19

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकोनविंशोऽध्यायः ॥ १९॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 20

श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् ।

परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २०॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 21

आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् ।

मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 22

मदर्थेष्वङ्ग चेष्टा च वचसा मद्गुणेरणम् ।

मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 23

मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।

इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः ॥ २३॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 24

एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।

मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ २४॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 25

यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् ।

धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥ २५॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 26

यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति ।

रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 27

धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।

गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 28

उद्धव उवाच ।

यमः कति विधः प्रोक्तो नियमो वारिकर्शन ।

कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८॥

Bhagavata Purana

स्कन्ध ११, अध्याय 19, Verse 29

किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते ।

कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥ २९॥