Bhagavata Purana

स्कन्ध ११, अध्याय 16

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 1

उद्धव उवाच ।

त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् ।

सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः ॥ १॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 2

उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ।

उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 3

येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।

उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ॥ ३॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 4

गूढश्चरसि भूतात्मा भूतानां भूतभावन ।

न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 5

याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते ।

ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ ५॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 6

श्रीभगवानुवाच ।

एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर ।

युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥ ६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 7

ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् ।

ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ॥ ७॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 8

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः ।

अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 9

अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।

अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 10

अहं गतिर्गतिमतां कालः कलयतामहम् ।

गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः ॥ १०॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 11

गुणिनामप्यहं सूत्रं महतां च महानहम् ।

सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 12

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् ।

अक्षराणामकारोऽस्मि पदानि छन्दसामहम् ॥ १२॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 13

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।

आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 14

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः ।

देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 15

सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् ।

प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा ॥ १५॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 16

मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् ।

सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 16

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षोडशोऽध्यायः ॥ १६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 17

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।

तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 18

उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।

यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 19

नागेन्द्राणामनन्तोऽहं मृगेन्द्रः श‍ृङ्गिदंष्ट्रिणाम् ।

आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥ १९॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 20

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् ।

आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २०॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 21

धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः ।

वनस्पतीनामश्वत्थ ओषधीनामहं यवः ॥ २१॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 22

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः ।

स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥ २२॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 23

यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् ।

वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः ॥ २३॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 24

योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।

आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 25

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः ।

नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 26

धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः ।

गुह्यानां सूनृतं मौनं मिथुनानामजस्त्वहम् ॥ २६॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 27

संवत्सरोऽस्म्यनिमिषां ऋतूनां मधुमाधवौ ।

मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 28

अहं युगानां च कृतं धीराणां देवलोऽसितः ।

द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८॥

Bhagavata Purana

स्कन्ध ११, अध्याय 16, Verse 29

वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।

किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः ॥ २९॥