Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 1

राजोवाच ।

देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।

प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 2

एतद्वेदितुमिच्छामः सन्देहोऽत्र महान् हि नः ।

विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 3

श्रीशुक उवाच ।

शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः ।

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 4

ततो विकारा अभवन् षोडशामीषु कञ्चन ।

उपधावन् विभूतीनां सर्वासामश्नुते गतिम् ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 5

हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः ।

स सर्वदृगुपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 6

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः ।

श‍ृण्वन् भगवतो धर्मानपृच्छदिदमच्युतम् ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 7

स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः ।

नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 8

श्रीभगवानुवाच ।

यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः ।

ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 9

स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया ।

मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 10

तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् ।

(विज्ञायात्मतया धीरः संसारात्परिमुच्यते ।

) अतो मां सुदुराराध्यं हित्वान्यान् भजते जनः ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 11

ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः ।

मत्ताः प्रमत्ता वरदान् विस्मरन्त्यवजानते ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 12

श्रीशुक उवाच ।

शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः ।

सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 13

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।

वृकासुराय गिरिशो वरं दत्त्वाऽऽप सङ्कटम् ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 14

वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।

दृष्ट्वाऽऽशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 15

स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि ।

योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 16

दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव ।

ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 17

इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः ।

केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 18

देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि ।

शिरोऽवृश्चत्स्वधितिना तत्तीर्थक्लिन्नमूर्धजम् ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 19

तदा महाकारुणिकः स धूर्जटि- र्यथा वयं चाग्निरिवोत्थितोऽनलात् ।

निगृह्य दोर्भ्यां भुजयोर्न्यवारय- त्तत्स्पर्शनाद्भूय उपस्कृताकृतिः ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 20

तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् ।

प्रीयेय तोयेन नृणां प्रपद्यता- महो त्वयाऽऽत्मा भृशमर्द्यते वृथा ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 21

देवं स वव्रे पापीयान् वरं भूतभयावहम् ।

यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 22

तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।

ओं इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 23

इत्युक्तः सोऽसुरो नूनं गौरीहरणलालसः ।

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः ।

स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 24

तेनोपसृष्टः सन्त्रस्तः पराधावन् सवेपथुः ।

यावदन्तं दिवो भूमेः काष्ठानामुदगादुदक् ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 25

अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः ।

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 26

यत्र नारायणः साक्षान्न्यासिनां परमा गतिः ।

शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 27

तं तथाव्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ।

दूरात्प्रत्युदियाद्भूत्वा वटुको योगमायया ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 28

मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन् ।

अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 29

श्रीभगवानुवाच ।

शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः ।

क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 88, Verse 30

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो ।

भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान् समीहते ॥ ३०॥