Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 1

श्रीशुक उवाच ।

स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः ।

सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 2

ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।

प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 3

श्रीभगवानुवाच ।

किमुपायनमानीतं ब्रह्मन् मे भवता गृहात् ।

अण्वप्युपाहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत् ।

भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 4

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 5

इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः ।

पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 6

सर्वभूतात्मदृक्साक्षात्तस्यागमनकारणम् ।

विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 7

पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया ।

प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 8

इत्थं विचिन्त्य वसनाच्चीरबद्धान् द्विजन्मनः ।

स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 9

नन्वेतदुपनीतं मे परमप्रीणनं सखे ।

तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुलाः ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 10

इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे ।

तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 11

एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये ।

अस्मिन् लोकेऽथ वामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 12

ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे ।

भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 13

श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः ।

जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 14

स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम् ।

स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 15

अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।

यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 16

क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः ।

ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 17

निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।

महिष्या वीजितः श्रान्तो वालव्यजनहस्तया ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 18

शुश्रूषया परमया पादसंवाहनादिभिः ।

पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 19

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।

सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 20

अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।

इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 21

इति तच्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम् ।

सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम् ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 22

विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः ।

प्रोत्फुल्लकुमुदाम्भोजकह्लारोत्पलवारिभिः ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 23

जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः ।

किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 24

एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः ।

प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 25

पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा ।

निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 26

पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना ।

मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 27

पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव ।

दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 28

प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् ।

मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 29

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 81, Verse 30

आसनानि च हैमानि मृदूपस्तरणानि च ।

मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३०॥