Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 1

श्रीशुक उवाच ।

शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ।

परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 2

एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन् ।

पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 3

तं तथाऽऽयान्तमालोक्य गदामादाय सत्वरः ।

अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 4

गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः ।

दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 5

त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि ।

अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 6

तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः ।

बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 7

एवं रूक्षैस्तुदन् वाक्यैः कृष्णं तोत्रैरिव द्विपम् ।

गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्चसः ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 8

गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः ।

कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 9

गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् ।

प्रसार्य केशबाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 10

ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् ।

पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 11

विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः ।

आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 12

तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना ।

शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 13

एवं सौभं च शाल्वं च दन्तवक्त्रं सहानुजम् ।

हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 14

मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः ।

अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 15

उपगीयमानविजयः कुसुमैरभिवर्षितः ।

वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 16

एवं योगेश्वरः कृष्णो भगवान् जगदीश्वरः ।

ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 17

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।

तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 18

स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।

सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 19

पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् ।

विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 20

यमुनामनु यान्येव गङ्गामनु च भारत ।

जगाम नैमिषं यत्र ऋषयः सत्रमासते ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 21

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः ।

अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 22

सोऽर्चितः सपरीवारः कृतासनपरिग्रहः ।

रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 23

अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् ।

अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधवः ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 24

कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः ।

धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मतिः ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 25

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च ।

सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 26

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः ।

न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 27

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः ।

वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 28

एतावदुक्त्वा भगवान् निवृत्तोऽसद्वधादपि ।

भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 29

हाहेति वादिनः सर्वे मुनयः खिन्नमानसाः ।

ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 78, Verse 30

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन ।

आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ॥ ३०॥