Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68

Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 1

श्रीशुक उवाच ।

दुर्योधनसुतां राजन् लक्ष्मणां समितिञ्जजयः ।

स्वयंवरस्थामहरत्साम्बो जाम्बवतीसुतः ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 2

कौरवाः कुपिता ऊचुर्दुर्विनीतोऽयमर्भकः ।

कदर्थीकृत्य नः कन्यामकामामहरद्बलात् ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 3

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।

येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 4

निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।

भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 5

इति कर्णः शलो भूरिर्यज्ञकेतुः सुयोधनः ।

साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 6

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः ।

प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 7

तं ते जिघृक्षवः क्रुद्धास्तिष्ठ तिष्ठेति भाषिणः ।

आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 8

सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।

नामृष्यत्तदचिन्त्यार्भः सिंहः क्षुद्रमृगैरिव ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 9

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।

कर्णादीन् षड्रथान् वीरांस्तावद्भिर्युगपत्पृथक् ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 10

चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन् ।

रथिनश्च महेष्वासांस्तस्य तत्तेऽभ्यपूजयन् ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 11

तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् ।

एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 12

तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।

कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 13

तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।

कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिताः ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 14

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् ।

नैच्छत्कुरूणां वृष्णीनां कलिं कलिमलापहः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 15

जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।

ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 16

गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः ।

उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 17

सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।

दुर्योधनं च विधिवद्राममागतमब्रवीत् ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 18

तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।

तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 19

तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।

तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 20

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।

परस्परमथो रामो बभाषेऽविक्लवं वचः ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 21

उग्रसेनः क्षितीशेशो यद्व आज्ञापयत्प्रभुः ।

तदव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम् ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 22

यद्यूयं बहवस्त्वेकं जित्वाऽधर्मेण धार्मिकम् ।

अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 23

वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वचः ।

कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 24

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।

आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 25

एते यौनेन सम्बद्धाः सहशय्यासनाशनाः ।

वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 26

चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् ।

किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 27

अलं यदूनां नरदेवलाञ्छनै- र्दातुः प्रतीपैः फणिनामिवामृतम् ।

येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 28

कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः ।

अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 29

श्रीशुक उवाच ।

जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ ।

आश्राव्य रामं दुर्वाच्यमसभ्याः पुरमाविशन् ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 68, Verse 30

दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।

अवोचत्कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ ३०॥