Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 1

श्रीशुक उवाच ।

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।

सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 2

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।

रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 3

चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः ।

इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 4

गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः ।

यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 5

समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः ।

विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 6

पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा ।

कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 7

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते ।

कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 8

दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः ।

निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 9

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः ।

कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 10

कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः ।

अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।

अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 11

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄरपि ।

यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 12

ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः ।

कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 13

कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः ।

गृह्णन्ति वै चित्रकथस्य सुन्दर- स्मितावलोकोच्छ्वसितस्मरातुराः ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 14

किं नस्तत्कथया गोप्यः कथाः कथयतापराः ।

यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 15

इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् ।

गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 16

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयङ्गमैः ।

सान्त्वयामास भगवान् नानानुनयकोविदः ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 17

द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च ।

रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 18

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना ।

यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 19

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।

पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 20

तं गन्धं मधुधाराया वायुनोपहृतं बलः ।

आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 21

(उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले ।

रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 21

उपगीयमानचरितो वनिताभिर्हलायुधः ।

वनेषु व्यचरत्क्षीबो मदविह्वललोचनः ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 22

नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा ।

गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥

)

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 22

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया ।

बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 23

स आजुहाव यमुनां जलक्रीडार्थमीश्वरः ।

निजं वाक्यमनादृत्य मत्त इत्यापगां बलः ।

अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 24

पापे त्वं मामवज्ञाय यन्नायासि मयाऽऽहुता ।

नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 25

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् ।

उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 26

राम राम महाबाहो न जाने तव विक्रमम् ।

यस्यैकांशेन विधृता जगती जगतः पते ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 27

परं भावं भगवतो भगवन् मामजानतीम् ।

मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 65, Verse 28

ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः ।

विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ २८॥