Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 1

श्रीशुक उवाच ।

एकदोपवनं राजन् जग्मुर्यदुकुमारकाः ।

विहर्तुं साम्बप्रद्युम्नचारुभानुगदादयः ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 2

क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः ।

जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 3

कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः ।

तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विताः ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 4

चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः ।

नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 5

तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः ।

वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 6

स उत्तमश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम् ।

सन्तप्तचामीकरचारुवर्णः स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 7

पप्रच्छ विद्वानपि तन्निदानं जनेषु विख्यापयितुं मुकुन्दः ।

कस्त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 8

दशामिमां वा कतमेन कर्मणा सम्प्रापितोऽस्यतदर्हः सुभद्र ।

आत्मानमाख्याहि विवित्सतां नो यन्मन्यसे नः क्षममत्र वक्तुम् ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 9

श्रीशुक उवाच ।

इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना ।

माधवं प्रणिपत्याह किरीटेनार्क वर्चसा ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 10

नृग उवाच ।

नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ।

दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 11

किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः ।

कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 12

यावत्यः सिकता भूमेर्यावत्यो दिवि तारकाः ।

यावत्यो वर्षधाराश्च तावतीरददं स्म गाः ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 13

पयस्विनीस्तरुणीः शीलरूप- गुणोपपन्नाः कपिला हेमश‍ृङ्गीः ।

न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददावहम् ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 14

स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः ।

तपःश्रुतब्रह्मवदान्यसद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 15

गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः ।

वासांसि रत्नानि परिच्छदान् रथा- निष्टं च यज्ञैश्चरितं च पूर्तम् ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 16

कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने ।

सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 17

तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम् ।

ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 18

विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ ।

भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद्भ्रमः ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 19

अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै ।

गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 20

भवन्तावनुगृह्णीतां किङ्करस्याविजानतः ।

समुद्धरत मां कृच्छ्रात्पतन्तं निरयेऽशुचौ ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 21

नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ।

नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 22

एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम् ।

यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 23

पूर्वं त्वमशुभं भुङ्क्षे उताहो नृपते शुभम् ।

नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 24

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः ।

तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 25

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।

स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 26

स त्वं कथं मम विभोऽक्षिपथः परात्मा योगेश्वरैः श्रुतिदृशामलहृद्विभाव्यः ।

साक्षादधोक्षज उरुव्यसनान्धबुद्धेः स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 27

देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ।

नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 28

अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो ।

यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 29

नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये ।

कृष्णाय वासुदेवाय योगानां पतये नमः ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 64, Verse 30

इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना ।

अनुज्ञातो विमानाग्र्यमारुहत्पश्यतां नृणाम् ॥ ३०॥