Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 1

श्रीशुक उवाच ।

एकैकशस्ताः कृष्णस्य पुत्रान् दश दशाबलाः ।

अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 2

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।

प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 3

चार्वब्जकोशवदनायतबाहुनेत्र- सप्रेमहासरसवीक्षितवल्गुजल्पैः ।

सम्मोहिता भगवतो न मनो विजेतुं स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 4

स्मायावलोकलवदर्शितभावहारि- भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न्यस्तु षोडशसहस्रमनङ्गबाणैः यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 5

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

भेजुर्मुदाविरतमेधितयानुराग- हासावलोकनवसङ्गमलालसाद्यम् ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 6

प्रत्युद्गमासनवरार्हणपादशौच- ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 7

तासां या दश पुत्राणां कृष्णस्त्रीणां पुरोदिताः ।

अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 8

चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ।

सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 9

चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः ।

प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 10

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ।

चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 11

श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ।

साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 12

विजयश्चित्रकेतुश्च वसुमान् द्रविडः क्रतुः ।

जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 13

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः ।

आमः शङ्कुर्वसुः श्रीमान् कुन्तिर्नाग्नजितेः सुताः ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 14

श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः ।

शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 15

प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः ।

माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 16

वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च ।

महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 17

सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित् ।

जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 18

दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः ।

प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 19

पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ।

एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप ।

मातरः कृष्णजातानां सहस्राणि च षोडश ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 20

राजोवाच ।

कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि ।

कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते ।

एतदाख्याहि मे विद्वन् द्विषोर्वैवाहिकं मिथः ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 21

अनागतमतीतं च वर्तमानमतीन्द्रियम् ।

विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 22

श्रीशुक उवाच ।

वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया ।

राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 23

यद्यप्यनुस्मरन् वैरं रुक्मी कृष्णावमानितः ।

व्यतरद्भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 24

रुक्मिण्यास्तनयां राजन् कृतवर्मसुतो बली ।

उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 25

दौहित्रायानिरुद्धाय पौत्रीं रुक्म्यददाद्धरेः ।

रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया ।

जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 26

तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ ।

पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 27

तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः ।

दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 28

अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत् ।

इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 29

शतं सहस्रमयुतं रामस्तत्राददे पणम् ।

तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम् ।

दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 61, Verse 30

ततो लक्षं रुक्म्यगृह्णाद् ग्लहं तत्राजयद्बलः ।

जितवानहमित्याह रुक्मी कैतवमाश्रितः ॥ ३०॥