Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56

Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 1

श्रीशुक उवाच ।

सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः ।

स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 2

राजोवाच ।

सत्राजितः किमकरोद्ब्रह्मन् कृष्णस्य किल्बिषम् ।

स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः ॥ २॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 3

श्रीशुक उवाच ।

आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा ।

प्रीतस्तस्मै मणिं प्रादात्सूर्यस्तुष्टः स्यमन्तकम् ॥ ३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 4

स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः ।

प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥ ४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 5

तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः ।

दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः ॥ ५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 6

नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।

दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ ६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 7

एष आयाति सविता त्वां दिदृक्षुर्जगत्पते ।

मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः ॥ ७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 8

नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः ।

ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ॥ ८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 9

श्रीशुक उवाच ।

निशम्य बालवचनं प्रहस्याम्बुजलोचनः ।

प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् ॥ ९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 10

सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम् ।

प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ १०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 11

दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो ।

दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः ।

न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ॥ ११॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 12

स याचितो मणिं क्वापि यदुराजाय शौरिणा ।

नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन् ॥ १२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 13

तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ।

प्रसेनो हयमारुह्य मृगयां व्यचरद्वने ॥ १३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 14

प्रसेनं सहयं हत्वा मणिमाच्छिद्य केसरी ।

गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥ १४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 15

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ।

अपश्यन् भ्रातरं भ्राता सत्राजित्पर्यतप्यत ॥ १५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 16

प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः ।

भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥ १६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 17

भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।

मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ॥ १७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 18

हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने ।

तं चाद्रिपृष्ठे निहतं ऋक्षेण ददृशुर्जनाः ॥ १८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 19

ऋक्षराजबिलं भीममन्धेन तमसाऽऽवृतम् ।

एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥ १९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 20

तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् ।

हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ २०॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 21

तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् ।

तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान् बलिनां वरः ॥ २१॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 22

स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः ।

पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् ॥ २२॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 23

द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः ।

आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव ॥ २३॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 24

आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः ।

वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥ २४॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 25

कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः ।

क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः ॥ २५॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 26

जाने त्वां सर्वभूतानां प्राण ओजः सहो बलम् ।

विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 27

त्वं हि विश्वसृजां स्रष्टा सृज्यानामपि यच्च सत् ।

कालः कलयतामीशः पर आत्मा तथाऽऽत्मनाम् ॥ २७॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 28

यस्येषदुत्कलितरोषकटाक्षमोक्षै- र्वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः ।

सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षः शिरांसि भुवि पेतुरिषुक्षतानि ॥ २८॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 29

इति विज्ञातविज्ञानं ऋक्षराजानमच्युतः ।

व्याजहार महाराज भगवान् देवकीसुतः ॥ २९॥

Bhagavata Purana

स्कन्ध १० उत्तरार्धम्, अध्याय 56, Verse 30

अभिमृश्यारविन्दाक्षः पाणिना शङ्करेण तम् ।

कृपया परया भक्तं प्रेमगम्भीरया गिरा ॥ ३०॥