Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 1

श्रीशुक उवाच ।

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः ।

सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 2

महार्होपस्करैराढ्यं कामोपायोपबृंहितम् ।

मुक्तादामपताकाभिर्वितानशयनासनैः ।

धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 3

गृहं तमायान्तमवेक्ष्य साऽऽसनात् सद्यःसमुत्थाय हि जातसम्भ्रमा ।

यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 4

तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् ।

कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 5

सा मज्जनालेपदुकूलभूषण- स्रग्गन्धताम्बूलसुधासवादिभिः ।

प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 6

आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे ।

प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 7

सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णो- र्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्त- मानन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 8

सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् ।

अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 9

आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।

रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 10

तस्यै कामवरं दत्त्वा मानयित्वा च मानदः ।

सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 11

दुरारार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।

यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 12

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः ।

किञ्चिच्चिकीर्षयन् प्रागादक्रूरप्रियकाम्यया ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 13

स तान् नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 14

ननाम कृष्णं रामं च स तैरप्यभिवादितः ।

पूजयामास विधिवत्कृतासनपरिग्रहान् ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 15

पादावनेजनीरापो धारयन् शिरसा नृप ।

अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 16

अर्चित्वा शिरसाऽऽनम्य पादावङ्कगतौ मृजन् ।

प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 17

दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् ।

भवद्भ्यामुद्धृतं कृच्छ्राद्दुरन्ताच्च समेधितम् ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 18

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ।

भवद्भ्यां न विना किञ्चित्परमस्ति न चापरम् ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 19

आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः ।

ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 20

यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना ।

एवं भवान् केवल आत्मयोनि- ष्वात्माऽऽत्मतन्त्रो बहुधा विभाति ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 21

सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः ।

न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 22

देहाद्युपाधेरनिरूपितत्वा- द्भवो न साक्षान्न भिदाऽऽत्मनः स्यात् ।

अतो न बन्धस्तव नैव मोक्षः स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 23

त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः ।

बाध्येत पाखण्डपथैरसद्भि- स्तदा भवान् सत्त्वगुणं बिभर्ति ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 24

स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः स्वांशेन भारमपनेतुमिहासि भूमेः ।

अक्षौहिणीशतवधेन सुरेतरांश- राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 25

अद्येश नो वसतयः खलु भूरिभागा यः सर्वदेवपितृभूतनृदेवमूर्तिः ।

यत्पादशौचसलिलं त्रिजगत्पुनाति स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥ २५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 26

कः पण्डितस्त्वदपरं शरणं समीयात् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।

सर्वान् ददाति सुहृदो भजतोऽभिकामा- नात्मानमप्युपचयापचयौ न यस्य ॥ २६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 27

दिष्ट्या जनार्दन भवानिह नः प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः ।

छिन्ध्याशु नः सुतकलत्रधनाप्तगेह- देहादिमोहरशनां भवदीयमायाम् ॥ २७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 28

श्रीशुक उवाच ।

इत्यर्चितः संस्तुतश्च भक्तेन भगवान् हरिः ।

अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 29

श्रीभगवानुवाच ।

त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।

वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 48, Verse 30

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः ।

श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३०॥