Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47

Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 1

श्रीशुक उवाच ।

तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् ।

पीताम्बरं पुष्करमालिनं लसन्- मुखारविन्दं परिमृष्टकुण्डलम् ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 2

शुचिस्मिताः कोऽयमपीच्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः ।

इति स्म सर्वाः परिवव्रुरुत्सुका- स्तमुत्तमश्लोकपदाम्बुजाश्रयम् ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 3

तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः ।

रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 4

जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् ।

भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 5

अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।

स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 6

अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् ।

पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 7

निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।

अधीतविद्या आचार्यं ऋत्विजो दत्तदक्षिणम् ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 8

खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।

दग्धं मृगास्तथारण्यं जारो भुक्त्वा रतां स्त्रियम् ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 9

इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः ।

कृष्णदूते व्रजं याते उद्धवे त्यक्तलौकिकाः ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 10

गायन्त्यः प्रियकर्माणि रुदत्यश्च गतह्रियः ।

तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 11

काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।

प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 12

गोप्युवाच ।

मधुप कितवबन्धो मा स्पृशाङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः ।

वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 13

सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान् भवादृक् ।

परिचरति कथं तत्पादपद्मं तु पद्मा ह्यपि बत हृतचेता ह्युत्तमश्लोकजल्पैः ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 14

किमिह बहु षडङ्घ्रे गायसि त्वं यदूना- मधिपतिमगृहाणामग्रतो नः पुराणम् ।

विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 15

दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।

चरणरज उपास्ते यस्य भूतिर्वयं काः अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 16

विसृज शिरसि पादं वेद्म्यहं चाटुकारै- रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् ।

स्वकृत इह विसृष्टापत्यपत्यन्यलोकाः व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन् ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 17

मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।

बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यः तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 18

यदनुचरितलीलाकर्णपीयूषविप्रुट् सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।

सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 19

वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।

ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र- स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 20

प्रियसख पुनरागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।

नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधूः साकमास्ते ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 21

अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् ।

क्वचिदपि स कथा नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 22

श्रीशुक उवाच ।

अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ।

सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 23

उद्धव उवाच ।

अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः ।

वासुदेवे भगवति यासामित्यर्पितं मनः ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 24

दानव्रततपोहोमजपस्वाध्यायसंयमैः ।

श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते ॥ २४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 25

भगवत्युत्तमश्लोके भवतीभिरनुत्तमा ।

भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥ २५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 26

दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च ।

हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम् ॥ २६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 27

सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे ।

विरहेण महाभागा महान् मेऽनुग्रहः कृतः ॥ २७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 28

श्रूयतां प्रियसन्देशो भवतीनां सुखावहः ।

यमादायागतो भद्रा अहं भर्तू रहस्करः ॥ २८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 29

श्रीभगवानुवाच ।

भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।

यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ।

तथाहं च मनः प्राणभूतेन्द्रियगुणाश्रयः ॥ २९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 47, Verse 30

आत्मन्येवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये ।

आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ ३०॥