Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 1

श्रीशुक उवाच ।

भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।

वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 2

तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः ।

स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 3

दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणं वनं च तत्कोमलगोभिरञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 4

निशम्य गीतं तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः ।

आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 5

दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः ।

पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 6

परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।

शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम् ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 7

लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।

व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 8

ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ।

गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 9

अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः ।

कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 10

दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः ।

ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 11

तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः ।

जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 12

राजोवाच ।

कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।

गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 13

श्रीशुक उवाच ।

उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।

द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 14

नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।

अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 15

कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।

नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 16

न चैवं विस्मयः कार्यो भवता भगवत्यजे ।

योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 17

ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।

अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 18

श्रीभगवानुवाच ।

स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।

व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 19

रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।

प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 20

मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।

विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 21

दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।

यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 22

तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।

क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 23

अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः ।

आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 24

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।

तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥ २४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 25

दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।

पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 26

अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।

जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥ २६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 27

श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 28

श्रीशुक उवाच ।

इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।

विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 29

कृत्वा मुखान्यव शुचः श्वसनेन शुष्य- द्बिम्बाधराणि चरणेन भुवं लिखन्त्यः ।

अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ २९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 29, Verse 29

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ २९॥