Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15

Containing 125 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 1

श्रीशुक उवाच ।

ततश्च पौगण्डवयः श्रितौ व्रजे बभूवतुस्तौ पशुपालसम्मतौ ।

गाश्चारयन्तौ सखिभिः समं पदैः वृन्दावनं पुण्यमतीव चक्रतुः ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 1

श्रीशुक उवाच ।

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।

तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 2

तन्माधवो वेणुमुदीरयन् वृतो गोपैर्गृणद्भिः स्वयशो बलान्वितः ।

पशून् पुरस्कृत्य पशव्यमाविश- द्विहर्तुकामः कुसुमाकरं वनम् ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 2

राजोवाच ।

कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम् ।

स वै बहुयुगावासं यथाऽऽसीद्विप्र कथ्यताम् ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 3

तन्मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता ।

वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 3

ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।

गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 4

स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः ।

स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्निवाहाग्रजमादिपूरुषः ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 4

श्रीशुक उवाच ।

कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना ।

श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 5

श्रीभगवानुवाच ।

अहो अमी देव वरामरार्चितं पादाम्बुजं ते सुमनःफलार्हणम् ।

नमन्त्युपादाय शिखाभिरात्मन- स्तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 5

विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः ।

म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 6

एतेऽलिनस्तव यशोऽखिललोकतीर्थं गायन्त आदिपुरुषानुपदं भजन्ते ।

प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 6

तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः ।

कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्ग- मास्फोट्य गाढरशनो न्यपतद्विषोदे ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 7

नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन ।

सूक्तैश्च कोकिलगणा गृहमागताय धन्या वनौकस इयान् हि सतां निसर्गः ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 7

सर्पह्रदः पुरुषसारनिपातवेग- सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।

पर्यक्प्लुतो विषकषायविभीषणोर्मि- र्धावन् धनुःशतकमनन्तबलस्य किं तत् ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 8

धन्येयमद्य धरणी तृणवीरुधस्त्वत्- पादस्पृशो द्रुमलताः करजाभिमृष्टाः ।

नद्योऽद्रयः खगमृगाः सदयावलोकै- र्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 8

तस्य ह्रदे विहरतो भुजदण्डघूर्ण- वार्घोषमङ्ग वरवारणविक्रमस्य ।

आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत्तदमृष्यमाणः ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 9

श्रीशुक उवाच ।

एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् ।

रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 9

तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।

क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 10

क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः ।

उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 10

तं नागभोगपरिवीतमदृष्टचेष्ट- मालोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।

कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 11

(अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित् ।

क्वचित्स वल्गु कूजन्तमनुकूजति कोकिलम् ॥

)

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 11

क्वचिच्च कलहंसानामनुकूजति कूजितम् ।

अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 11

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।

कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 12

मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।

क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 12

अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः ।

उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 13

चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिणः ।

अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 13

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 14

क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।

स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 14

तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः ।

तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 15, Verse 15

नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।

गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ १५॥