Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 1

ब्रह्मोवाच ।

नौमीड्य तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय ।

वन्यस्रजे कवलवेत्रविषाणवेणु- लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 2

अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।

नेशे महि त्ववसितुं मनसाऽऽन्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 3

ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।

स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 4

श्रेयःसृतिं/स्रुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये ।

तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 5

पुरेह भूमन् बहवोऽपि योगिन- स्त्वदर्पितेहा निजकर्मलब्धया ।

विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 6

तथापि भूमन् महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः ।

अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 7

गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिताः सुकल्पै- र्भूपांसवः खे मिहिका द्युभासाः ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 8

तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् ।

हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 9

पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि ।

मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 10

अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः ।

अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 11

क्वाहं तमोमहदहङ्खचराग्निवार्भू- संवेष्टिताण्डघटसप्तवितस्तिकायाः ।

क्वेदृग्विधाविगणिताण्डपराणुचर्या- वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 12

उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे ।

किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 13

जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् ।

विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 14

नारायणस्त्वं न हि सर्वदेहिना- मात्मास्यधीशाखिललोकसाक्षी ।

नारायणोऽङ्गं नरभूजलायनात् तच्चापि सत्यं न तवैव माया ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 14

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 15

तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव ।

किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 16

अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।

कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 17

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 18

अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शित- मेकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।

तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिता- स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 19

अजानतां त्वत्पदवीमनात्म- न्यात्माऽऽत्मना भासि वितत्य मायाम् ।

सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 20

सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य ।

जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 21

को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।

क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 22

तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।

त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 23

एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयञ्ज्योतिरनन्त आद्यः ।

नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 24

एवं विधं त्वां सकलात्मनामपि स्वात्मानमात्माऽऽत्मतया विचक्षते ।

गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 25

आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 26

अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।

अजस्रचित्याऽऽत्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥ २६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 27

त्वामात्मानं परं मत्वा परमात्मानमेव च ।

आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 28

अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।

असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 14, Verse 29

अथापि ते देव पदाम्बुजद्वय- प्रसादलेशानुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो- न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९॥