Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 1

श्रीशुक उवाच ।

साधु पृष्टं महाभाग त्वया भागवतोत्तम ।

यन्नूतनयसीशस्य श‍ृण्वन्नपि कथां मुहुः ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 2

सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि ।

प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधुवार्ता ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 3

श‍ृणुष्वावहितो राजन्नपि गुह्यं वदामि ते ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 4

तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् ।

सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 5

अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन्मृदुलाच्छवालुकम् ।

स्फुटत्सरोगन्धहृतालिपत्रिक- ध्वनिप्रतिध्वानलसद्द्रुमाकुलम् ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 6

अत्र भोक्तव्यमस्माभिर्दिवा रूढं क्षुधार्दिताः ।

वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 7

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।

मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 8

कृष्णस्य विष्वक्पुरुराजिमण्डलै- रभ्याननाः फुल्लदृशो व्रजार्भकाः ।

सहोपविष्टा विपिने विरेजु- श्छदा यथाम्भोरुहकर्णिकायाः ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 9

केचित्पुष्पैर्दलैः केचित्पल्लवैरङ्कुरैः फलैः ।

शिग्भिस्त्वग्भिर्दृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 10

सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् ।

हसन्तो हासयन्तश्चाभ्यवजह्रुः सहेश्वराः ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 11

बिभ्रद्वेणुं जठरपटयोः श‍ृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।

तिष्ठन्मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 12

भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु ।

वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 13

तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् ।

मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 13

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 14

इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् ।

विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 15

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।

नीत्वान्यत्र कुरूद्वहान्तरदधात्खेऽवस्थितो यः पुरा दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 16

ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।

उभावपि वने कृष्णो विचिकाय समन्ततः ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 17

क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् ।

सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 18

ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च ।

उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 19

यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकं यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम् ।

यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 20

स्वयमात्माऽऽत्मगोवत्सान् प्रतिवार्यात्मवत्सपैः ।

क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम् ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 21

तत्तद्वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः ।

तत्तदात्माभवद्राजंस्तत्तत्सद्म प्रविष्टवान् ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 22

तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।

स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 23

ततो नृपोन्मर्दनमज्जलेपना- लङ्काररक्षातिलकाशनादिभिः ।

संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 24

गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् ।

स्वकान्स्वकान्वत्सतरानपायय- न्मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 25

गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना ।

पुरोवदास्वपि हरेस्तोकता मायया विना ॥ २५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 26

व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् ।

शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 27

इत्थमात्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः ।

पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 28

एकदा चारयन् वत्सान् सरामो वनमाविशत् ।

पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 13, Verse 29

ततो विदूराच्चरतो गावो वत्सानुपव्रजम् ।

गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९॥