Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 1

श्रीशुक उवाच ।

एकदा गृहदासीषु यशोदा नन्दगेहिनी ।

कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 2

यानि यानीह गीतानि तद्बालचरितानि च ।

दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 3

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः ।

रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 4

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।

गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 5

तमङ्कमारूढमपाययत्स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् ।

अतृप्तमुत्सृज्य जवेन सा यया- वुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 6

सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमन्थभाजनम् ।

भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 7

उत्तार्य गोपी सुश‍ृतं पयः पुनः प्रविश्य सन्दृश्य च दध्यमत्रकम् ।

भग्नं विलोक्य स्वसुतस्य कर्म त- ज्जहास तं चापि न तत्र पश्यती ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 8

उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् ।

हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात्सुतमागमच्छनैः ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 9

तामात्तयष्टिं प्रसमीक्ष्य सत्वर- स्ततोऽवरुध्यापससार भीतवत् ।

गोप्यन्वधावन्न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 9

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 10

अन्वञ्चमाना जननी बृहच्चल- च्छ्रोणीभराक्रान्तगतिः सुमध्यमा ।

जवेन विस्रंसितकेशबन्धन- च्युतप्रसूनानुगतिः परामृशत् ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 11

कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना ।

उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 12

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।

इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 13

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।

पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 14

तं मत्वाऽऽत्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 15

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।

द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 16

यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे ।

तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 17

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।

गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 18

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।

दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत्स्वबन्धने ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 19

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता ।

स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 20

नेमं विरिञ्चो न भवो न श्रीरप्यङ्ग संश्रया ।

प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 21

नायं सुखापो भगवान् देहिनां गोपिकासुतः ।

ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 22

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।

अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 23

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।

नलकूबरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 9, Verse 24

॥

ॐ नमो भगवते वासुदेवाय ॥