Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 1

श्रीशुक उवाच ।

गर्गः पुरोहितो राजन् यदूनां सुमहातपाः ।

व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥ १॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 2

तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः ।

आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 3

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।

नन्दयित्वाब्रवीद्ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 4

महद्विचलनं नॄणां गृहिणां दीनचेतसाम् ।

निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 5

ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम् ।

प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 6

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि ।

बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 7

गर्ग उवाच ।

यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः ।

सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 8

कंसः पापमतिः सख्यं तव चानकदुन्दुभेः ।

देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 8

इति श्रीमद्भाग्वते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विश्वरूपदर्शने अष्टमोऽध्यायः ॥ ८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 9

इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः ।

अपि हन्ताऽऽगताशङ्कस्तर्हि तन्नोऽनयो भवेत् ॥ ९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 10

नन्द उवाच ।

अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे ।

कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 11

श्रीशुक उवाच ।

एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।

चकार नामकरणं गूढो रहसि बालयोः ॥ ११॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 12

गर्ग उवाच ।

अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः ।

आख्यास्यते राम इति बलाधिक्याद्बलं विदुः ।

यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्युत ॥ १२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 13

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 14

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 15

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 16

एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 17

पुरानेन व्रजपते साधवो दस्युपीडिताः ।

अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 18

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 19

तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः ।

श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 20

इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।

नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २०॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 21

कालेन व्रजताल्पेन गोकुले रामकेशवौ ।

जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ २१॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 22

तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु ।

तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 23

तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगुह्य दोर्भ्याम् ।

दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 24

यर्ह्यङ्गना दर्शनीयकुमारलीला- वन्तर्व्रजेतदबलाः प्रगृहीतपुच्छैः ।

वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 25

श‍ृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ।

गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 26

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।

अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ २६॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 27

ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः ।

सह रामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 28

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।

श‍ृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ २८॥

Bhagavata Purana

स्कन्ध १० पूर्वार्धम्, अध्याय 8, Verse 29

वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः ।

मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९॥