Avyakta Upanishad

Complete Upanishad

Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.

Avyakta Upanishad

Complete Upanishad, Verse 1

अव्यक्तोपनिषत्

(अव्यक्तनृसिंहोपनिषत्)

(सामवेदीया)

स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी ।

प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो

बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं

ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-

मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

(सृष्टेः पुरा निर्विशेषब्रह्मस्थितिः)

हरिः ॐ ।

पुरा किलेदं न किञ्चन्नासीन्न द्यौर्नान्तरिक्षं

न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं

रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् ।

(परमेष्ठिप्रादुभविः)

तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् ।

तत्र यद्रक्तं तत्पुंसो रूपमभूत् ।

यद्धरितं तन्मायायाः ।

तौ समगच्छतः ।

तयोर्वीर्यमेवमनन्दत् ।

तदवर्धत ।

तदण्डमभूधैमम् ।

तत्परिणममानमभूत् ।

ततः

परमेष्ठी व्यजायत ।

(परमेष्ठिनः स्वकृत्यजिज्ञासा)

सोऽभिजिज्ञासत किं मे कुलं किं मे

कृत्यमिति ।

तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापते

त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति ।

किमव्यक्तं

यस्मादहमासिषम् ।

किं तद्व्यक्तं यन्मे कृत्यमिति ।

साब्रवीदविज्ञेयं हि तत्सौम्य तेजः ।

यदविज्ञेयं तदव्यक्तम् ।

तच्चेज्जिज्ञाससि मावगच्छेति ।

स होवाच कैषा त्वं

ब्रह्मवाग्यदसि शंसात्मानमिति ।

सा त्वब्रवीत्तपसा मां

विजिज्ञासस्वेति ।

स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास

Avyakta Upanishad

Complete Upanishad, Verse 2

द्वितीयः खण्डः

(परमेष्ठिनः आनुष्ठुभीविद्यादर्शनम्)

अथापश्यदृचमानुष्टुभीं परमां विद्यां

यस्याङ्गान्यन्ये मन्त्राः ।

यत्र ब्रह्म प्रतिष्ठितम् ।

विश्वेदेवाः प्रतिष्ठिताः ।

यस्तां न वेद किमन्यैर्वेदैः

करिष्यति ।

(आनुष्टुभीविद्यया नृसिंहदर्शनम्)

तां विदित्वा स च रक्तं जिज्ञासयामास ।

तामेवमनूचानां गायन्नासिष्ट ।

सहस्रं समा

आद्यन्तनिहितोङ्कारेण पदान्यगायत् ।

सहस्रं

समास्तथैवाक्षरशः ।

ततोऽपश्यज्ज्योतिर्मयं

श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं

मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् ।

(नृसिंहस्तुतिः)

ततः प्रजापतिः प्रणिपपात नमोनम इति ।

तथैवर्चाथ तमस्तौत् ।

उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् ।

वीरमित्याह

वीरो वा एष वीर्यवत्त्वात् ।

महाविष्णुमित्याह महतां वा अयं

महान्रोदसी व्याप्य स्थितः ।

ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः ।

सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् ।

नृसिंहमित्याह यथा यजुरेवैतत् ।

भीषणमित्याह भीषा वा

अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति

भीतः पर्जन्यो वर्षति ।

भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः ।

मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् ।

नमामीत्याह यथा यजुरेवैतत् ।

अहमित्याह यथा यजुरेवैतत्

Avyakta Upanishad

Complete Upanishad, Verse 3

(उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतेजसम् ।

नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

)

तृतीय खण्डः

(व्यक्तस्वरूपम्)

अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं

तदाशंसेति ।

स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि

व्यक्तं मम कृत्यमिति पुराश्रावि ।

तत्राव्यक्तं भवानित्यज्ञायि

व्यक्तं मे कथयेति ।

व्यक्तं वै विश्वं चराचरात्मकम् ।

यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति ।

(जगत्सृष्ट्युपायो ध्यानयज्ञः)

स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति ।

तमुवाच पुरुषः प्रजापते श‍ृणु

सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि ।

सर्वत्र शक्ष्यसि सर्वं करिष्यसि ।

मय्यग्नौ स्वात्मानं

हविर्ध्यायेत्तयैवानुष्टुभर्चा ।

ध्यानयज्ञोऽयमेव ।

(ध्यानयज्ञमहिमा)

एतद्वै महोपनिषद्देवानां गुह्यम् ।

न ह वा एतस्य साम्ना

नर्चा न यजुषार्थो नु विद्यते ।

य इमा वेद स सर्वान्कामानवाप्य

सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति

Avyakta Upanishad

Complete Upanishad, Verse 4

चतुर्थः खण्डः

(ध्यानयज्ञेन परमेष्ठिनः सर्वज्ञत्वादिलाभः)

प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानो

मनोयज्ञेनेजे ।

सप्रणवया तयैवर्चा हविर्ध्यात्वात्मान-

मात्मन्यग्नौ जुहुयात् ।

सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् ।

(अन्यस्यापि ध्यानयज्ञेन सर्वज्ञत्वादिलाभः)

य एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः

सर्वकर्ता भवति ।

स सर्वांॅल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति

Avyakta Upanishad

Complete Upanishad, Verse 5

पञ्चमः खण्डः

ई(लोकत्रयादिसृष्टिः)

अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानि

त्रिंशदक्षराणि तेभ्यस्त्रींॅल्लोकान् ।

अथ द्वे द्वे अक्षरे

ताभ्यामुभयतो दधार ।

तस्या एवर्चो द्वात्रिंशद्भिरक्षरै-

स्तान्देवान्निर्ममे ।

सर्वैरेव स इन्द्रोऽभवत् ।

तस्मादिन्द्रो

देवानामधिकोऽभवत् ।

य एवं वेद समानानामधिको भवेत् ।

(वसुरुद्रादित्यस्रुष्टिः)

तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे ।

तस्या

एकादशभिरेकादशादित्यान्निर्ममे ।

सर्वैरेव स विष्णुरभवत् ।

तस्माद्विष्णुरादित्यानामधिकोऽभवत् ।

य एवं वेद समानानामधिको

भवेत् ।

स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् ।

स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् ।

दशभिर्दशभिर्विट्क्षत्रे ।

तस्माद्ब्राह्मणो मुख्यो भवति ।

एवं तन्मुख्यो भवति य एवं वेद ।

तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् ।

(अहोरात्रसृष्टिः)

न वेदं इवा न नक्तमासीदव्यावृतम् ।

स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् ।

(वेदछन्दस्सृष्टिः)

ततो व्यैच्छत् व्येवास्मा उच्छति ।

अथो तम एवापहते ।

ऋग्वेदमस्या आद्यात्पादादकल्पयत् ।

यजुर्द्वितीयात् ।

साम तृतीयात् ।

अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदा

तेन गायत्री ।

यदेकादशपदा तेन त्रिष्टुप् ।

यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् ।

सा वा एषा सर्वाणि छन्दांसि ।

य इमां सर्वाणि छन्दांसि वेद ।

सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं

प्रतितिष्ठति यश्चैवं वेद

Avyakta Upanishad

Complete Upanishad, Verse 6

षष्ठः खण्डः

(स्त्रीपुरुषमिथुनसृष्टिः)

अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं

न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचं

गातुमुपाक्रामत् ।

ततः प्रथमपादादुग्ररूपो देवः

प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं

विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् ।

उभाभ्यानंशाभ्यां सर्वमादिष्टः ।

ततः प्रजाः प्रजायन्ते ।

य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गाय-

न्नुद्ग्रथितजटाकलापः प्रत्यो अग्ज्योतिष्यात्मन्येव रन्तारमिति ।

(इन्द्राख्यायिका)

इन्द्रो वै किल देवानामनुजावर आसीत् ।

तं प्रजापतिरब्रवीद्गच्छ

देवानामधिपतिर्भवेति ।

सोऽगच्छत् ।

तं देवा ऊचुरनुजावरोऽसि

त्वमस्माकं कुतस्त्वाधिपत्यमिति ।

स प्रजापतिमभ्येत्योवाचैवं

देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति ।

तं प्रजापतिरिन्द्रं

त्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तं

सुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैव

सुरक्षितोऽभवत् ।

रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभं

विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् ।

ततः सुदुर्निरीक्षोऽभवत् ।

तस्मै विद्यामानुष्टुभीं प्रादात् ।

ततो देवास्तमाधिपत्यायानुमेनिरे ।

स स्वराडभूत् ।

य एवं वेद स्वराड् भवेत् ।

सोऽमन्यत पृथिवीमपि

कथमपां जयेयमिति ।

स प्रजापतिमुपाधावत् ।

तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारं

भद्रासनं प्रादात् ।

स पृथिवीमभ्यजयत् ।

ततः स

उभयोर्लोकयोरधिपतिरभूत् ।

य एवं वेदोभयोर्लोकयोरधिपतिर्भवति ।

स पृथिवीं जयति ।

(परमात्मप्रतिष्ठासाधनम्)

यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो

वसीयान्भवति यश्चैवं वेद यश्चैवं वेद