Avadhuta Upanishad

Complete Upanishad

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Avadhuta Upanishad

Complete Upanishad, Verse 1

अवधूतोपनिषत्

गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् ।

तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥

ॐ सह नाववतु ॥

सह नौ भुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं

परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं

लक्ष्म किं संसरणमिति ।

तं होवाच भगवो दत्तात्रेयः

परमकारुणिकः ॥

अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् ।

तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते

Avadhuta Upanishad

Complete Upanishad, Verse 2

यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः सदा ।

अतिवर्णाश्रमी योगी अवधूतः स कथ्यते

Avadhuta Upanishad

Complete Upanishad, Verse 3

तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः ।

प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते

Avadhuta Upanishad

Complete Upanishad, Verse 4

गोपालसदृशां शीर्षे नापि मध्ये न चाप्यधः ।

ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत्

Avadhuta Upanishad

Complete Upanishad, Verse 5

एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ।

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः

Avadhuta Upanishad

Complete Upanishad, Verse 6

स्वैरं स्वैरविहरणं तत्संसरणम् ।

सांबरा वा दिगंबरा वा ।

न तेषां धर्माधर्मौ न मेध्यामेधौ ।

सदा

सांग्रहण्येष्ट्याश्वमेधमन्तयागं यजते ।

स महामखो महायोगः ।

कृत्स्नमेतच्चित्रं कर्म ।

स्वैरं न विगायेत्तन्महाव्रतम् ।

न स मूढवल्लिप्यते ।

यथा रविः सर्वरसान्प्रभुङ्क्ते

हुताशनश्चापि हि सर्वभक्षः ।

तथैव योगी विषयान्प्रभुङ्क्ते

न लिप्यते पुण्यपापैश्च शुद्धः

Avadhuta Upanishad

Complete Upanishad, Verse 7

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रविशन्ति यद्वत् ।

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी

Avadhuta Upanishad

Complete Upanishad, Verse 8

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता

Avadhuta Upanishad

Complete Upanishad, Verse 9

ऐहिकामुष्मिकव्रातसिद्धै मुक्तेश्च सिद्धये ।

बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम्

Avadhuta Upanishad

Complete Upanishad, Verse 10

तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् ।

अनुसन्दधदेवायमेवं तृप्यति नित्यशः

Avadhuta Upanishad

Complete Upanishad, Verse 11

दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ।

परमानन्दपूर्णोऽहं संसरामि किमिच्छया

Avadhuta Upanishad

Complete Upanishad, Verse 12

अनुतिष्ठन्तु कर्माणि परलोकयियासवः ।

सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम्

Avadhuta Upanishad

Complete Upanishad, Verse 13

व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा ।

येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः

Avadhuta Upanishad

Complete Upanishad, Verse 14

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च ।

द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात्

Avadhuta Upanishad

Complete Upanishad, Verse 15

गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना ।

नान्यारोपितसंसारधर्मा नैवमहं भजे

Avadhuta Upanishad

Complete Upanishad, Verse 16

श‍ृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माञ्छृणोम्यहम् ।

मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः

Avadhuta Upanishad

Complete Upanishad, Verse 17

विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये ।

देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम्

Avadhuta Upanishad

Complete Upanishad, Verse 18

अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् ।

विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते

Avadhuta Upanishad

Complete Upanishad, Verse 19

आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते ।

कर्मक्षये त्वसौ नैव शामेद्ध्यानसहस्रतः

Avadhuta Upanishad

Complete Upanishad, Verse 20

विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते ।

बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः

Avadhuta Upanishad

Complete Upanishad, Verse 21

विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम ।

विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ।

नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक्

Avadhuta Upanishad

Complete Upanishad, Verse 22

कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः ।

व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा ।

ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम्

Avadhuta Upanishad

Complete Upanishad, Verse 23

अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया ।

शास्त्रीयेणैव मार्गेन वर्तेऽहं मम का क्षतिः

Avadhuta Upanishad

Complete Upanishad, Verse 24

देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः ।

तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम्

Avadhuta Upanishad

Complete Upanishad, Verse 25

विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् ।

साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये

Avadhuta Upanishad

Complete Upanishad, Verse 26

कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः ।

तृप्यन्नेवं स्वमनसा मन्यतेसौ निरन्तरम्

Avadhuta Upanishad

Complete Upanishad, Verse 27

धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि ।

धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम्

Avadhuta Upanishad

Complete Upanishad, Verse 28

धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य ।

धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि

Avadhuta Upanishad

Complete Upanishad, Verse 29

धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् ।

धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र सम्पन्नम्

Avadhuta Upanishad

Complete Upanishad, Verse 30

धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके ।

धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः