Complete Upanishad, Verse 1
आत्मबोधोपनिषत्
॥
आत्मबोधोपनिषत् ॥
42
श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् ।
स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥
ॐ वाङ्मे मनसीति शान्तिः ॥
ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार
मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति ।
यमुक्त्वा मुच्यते
योगी जन्मसंसारबन्धनात् ।
ॐ नमो नारायणाय
शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति
मन्त्रोपासको वैकुण्ठभवनं गमिष्यति ।
अथ यदिदं
ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं
दीपवत्प्रकाशम् ॥
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥
सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं
ब्रह्मोम् ।
शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति ।
द्वैताद्वैतमभयं भवति ।
मृत्योः स मृत्युमाप्नोति य इह
नानेव पश्यति ।
हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने
प्रतिष्ठितम् ।
प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा
प्रज्ञानं ब्रह्म ।
स एतेन
प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके
सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् ।
यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् ।
तस्मिन्मां देहि
स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च
गच्छत्यों नमः