Complete Upanishad, Verse 1
अथर्वशिखोपनिषत्
ओङ्कारार्थतया भातं तुर्योङ्काराग्रभासुरम् ।
तुर्यतुर्यंत्रिपाद्रामं स्वमात्रं कलयेऽन्वहम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अथ हैनं पैप्पलादोऽङ्गिराः सनत्कुमारश्चाथर्वणमुवाच
भगवन्किमादौ प्रयुक्तं ध्यानं ध्यायितव्यं किं तद्ध्यानं को
वा ध्याता कश्च ध्येयः ।
स एभ्योथर्वा प्रत्युवाच ।
ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमित्येतदक्षरं
परं ब्रह्मास्य पादाश्चत्वारो वेदाश्चतुष्पादिदमक्षरं परं ब्रह्म ।
पूर्वास्य मात्रा पृथिव्यकारः ऋग्भिरृग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः ।
द्वितीयान्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः ।
तृतीयः द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयः ।
यावसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओङ्कारः
साथर्वणमन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो
विराडेकर्षिर्भास्वती स्मृता ।
प्रथमा रक्तपीता महद्ब्रह्म दैवत्या ।
द्वितीया विद्युमती कृष्णा विष्णुदैवत्या ।
तृतीया शुभाशुभा शुक्ला रुद्रदैवत्या ।
यावासानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुषदैवत्या ।
स एष ह्योङ्कारश्चतुरक्षरश्चतुष्पादश्चतुःशिरश्चतुर्थमात्रः
स्थूलमेतद्ह्रस्वदीर्घप्लुत इति ॥
ॐ ॐ ॐ इति त्रिरुक्त्वा चतुर्थः शान्त आत्माप्लुतप्रणवप्रयोगेण
समस्तमोमिति प्रयुक्त आत्मज्योतिः सकृदावर्तते सकृदुच्चारितमात्रः
स एष ऊर्ध्वमन्नमयतीत्योङ्कारः ।
प्राणान्सर्वान्प्रलीयत इति प्रलयः ।
प्राणान्सर्वान्परमात्मनि प्रणामयतीत्येतस्मात्प्रणवः ।
चतुर्थावस्थित इति सर्वदेववेदयोनिः सर्ववाच्यवस्तु प्रणवात्मकम्