Kaanda 9, Sukta 7, Verse 1
गौः
प्र॒जाप॑तिश्च परमे॒ष्ठी च॒ शृङ्गे॒ इन्द्रः॒ शिरो॑ अ॒ग्निर्ल॒लाटं॑ य॒मः कृका॑टम्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
गौः
प्र॒जाप॑तिश्च परमे॒ष्ठी च॒ शृङ्गे॒ इन्द्रः॒ शिरो॑ अ॒ग्निर्ल॒लाटं॑ य॒मः कृका॑टम्
सोमो॒ राजा॑ म॒स्तिष्को॒ द्यौरु॑त्तरह॒नुः पृ॑थि॒व्यऽधरह॒नुः
वि॒द्युज्जि॒ह्वा म॒रुतो॒ दन्ता॑ रे॒वति॑र्ग्री॒वाः कृत्ति॑का स्क॒न्धा घ॒र्मो वहः॑
विश्वं॑ वा॒युः स्व॒र्गो लो॒कः कृ॑ष्ण॒द्रं वि॒धर॑णी निवे॒ष्यः
श्ये॒नः क्रो॒डो॒३ऽन्तरि॑क्षं पाज॒स्यं॑१ बृह॒स्पतिः॑ क॒कुद् बृ॑ह॒तीः कीक॑साः
दे॒वानां॒ पत्नीः॑ पृ॒ष्टय॑ उप॒सदः॒ पर्श॑वः
मि॒त्रश्च॒ वरु॑ण॒श्चांसौ॒ त्वष्टा॑ चार्य॒मा च॑ दो॒षणी॑ महादे॒वो बा॒हू
इ॒न्द्रा॒णी भ॒सद् वा॒युः पुच्छं॒ पव॑मानो॒ बालाः॑
ब्रह्म॑ च क्ष॒त्रं च॒ श्रोणी॒ बल॑मू॒रू
धा॒ता च॑ सवि॒ता चा॑ष्ठी॒वन्तौ॒ जङ्घा॑ गन्ध॒र्वा अ॑प्स॒रसः॒ कुष्ठि॑का॒ अदि॑तिः श॒फाः
चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत्
क्षुत् कु॒क्षिरिरा॑ वनि॒ष्ठुः पर्व॑ताः प्ला॒शयः॑
क्रोधो॑ वृ॒क्कौ म॒न्युरा॒ण्डौ प्र॒जा शेपः॑
न॒दी सू॒त्री व॒र्षस्य॒ पत॑य॒ स्तना॑ स्तनयि॒त्नुरूधः॑
वि॒श्वव्य॑चा॒स्चर्मौष॑धयो॒ लोमा॑नि॒ नक्ष॑त्राणि रू॒पम्
दे॒व॒ज॒ना गुदा॑ मनु॒ष्याऽ आ॒न्त्राण्य॒त्रा उ॒दर॑म्
रक्षां॑सि॒ लोहि॑तमितरज॒ना ऊब॑ध्यम्
अ॒भ्रं पीबो॑ म॒ज्जा नि॒धन॑म्
अ॒ग्निरासी॑न॒ उत्थि॑तो॒ऽश्विना॑
इन्द्रः॒ प्राङ् तिष्ठ॑न् दक्षि॒णा तिष्ठ॑न् य॒मः
प्र॒त्यङ् तिष्ठ॑न् धा॒तोद॒ङ् तिष्ठ॑न्त्सवि॒ता
तृणा॑नि प्राप्तः॒ सोमो॒ राजा॑
मि॒त्र ईक्ष॑माण॒ आवृ॑त्त आन॒न्दः
यु॒ज्यमा॑नो वैश्वदे॒वो यु॒क्तः प्र॒जाप॑ति॒र्विमु॑क्तः॒ सर्व॑म्
ए॒तद् वै वि॒श्वरू॑पं॒ सर्व॑रूपं गोरू॒पम्
उपै॑नं वि॒श्वरू॑पाः॒ सर्व॑रूपाः प॒शव॑स्तिष्ठन्ति॒ य ए॒वं वेद॑