Kaanda 8, Sukta 10, Verse 1
वि॒राड् वा इ॒दमग्र॑ आसी॒त् तस्या॑ जा॒तायाः॒ सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
वि॒राड् वा इ॒दमग्र॑ आसी॒त् तस्या॑ जा॒तायाः॒ सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑
सोद॑क्राम॒त् सान्तरि॑क्षे चतु॒र्धा विक्रा॑न्तातिष्ठत्
सोद॑क्राम॒त् सा वन॒स्पती॒नाग॑च्छत् तां वन॒स्पत॑योऽघ्नत॒ सा सं॑वत्स॒रे सम॑भवत्
सोद॑क्राम॒त् सासु॑रा॒नाग॑च्छ॒त् तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑
सोद॑क्राम॒त् सा दे॒वानाग॑च्छ॒त् तां दे॒वा उपा॑ह्वय॒न्तोर्ज॒ एहीति॑
तद् वि॒षं स॒र्पा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥
१६ (२९)
तद् यस्मा॑ ए॒वं वि॒दुषे॒ऽलाबु॑नाभिषि॒ञ्चेत् प्र॒त्याह॑न्यात्
सोद॑क्राम॒त् सा गार्ह॑पत्ये॒ न्यऽक्रामत्
तां दे॑वमनु॒ष्याऽ अब्रुवन्नि॒यमे॒व तद् वे॑द॒ यदु॒भय॑ उप॒जीवे॑मे॒मामुप॑ ह्वयामहा॒ इति॑
तस्मा॒द् वन॒स्पती॑नां संवत्स॒रे वृ॒क्णमपि॑ रोहति वृ॒श्चते॒ऽस्याप्रि॑यो॒ भ्रातृ॑व्यो॒ य ए॒वं वेद॑
तस्या॑ वि॒रोच॑नः॒ प्राह्रा॑दिर्व॒त्स आसी॑दयस्पा॒त्रं पात्र॑म्
तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म्
न च॑ प्रत्याह॒न्यान्मन॑सा त्वा प्र॒त्याह॒न्मीति॑ प्र॒त्याह॑न्यात्
गृ॒ह॒मे॒धी गृ॒हप॑तिर्भवति॒ य ए॒वं वेद॑
तामुपा॑ह्वयन्त
सोद॑क्राम॒त् सा पि॒तॄनाग॑च्छ॒त् तां पि॒तरो॑ऽघ्नत॒ सा मा॒सि सम॑भवत्
तां द्विमू॑र्धा॒र्त्व्योऽधो॒क् तां मा॒यामे॒वाधो॑क्
तां दे॒वः स॑वि॒ताधो॒क् तामू॒र्जामे॒वाधो॑क्
यत् प्र॑त्या॒हन्ति॑ वि॒षमे॒व तत् प्र॒त्याह॑न्ति
सोद॑क्राम॒त् साह॑व॒नीये॒ न्यऽक्रामत्
ऊर्ज॒ एहि॒ स्वध॒ एहि॒ सूनृ॑त॒ एहीरा॑व॒त्येहीति॑
तस्मा॑त् पि॒तृभ्यो॑ मा॒स्युप॑मास्यं ददति॒ प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑
तां मा॒यामसु॑रा॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑
तामू॒र्जां दे॒वा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑
वि॒षमे॒वास्याप्रि॑यं॒ भ्रातृ॑व्यमनु॒विषि॑च्यते॒ य ए॒वं वेद॑
यन्त्य॑स्य दे॒वा दे॒वहू॑तिं प्रि॒यो दे॒वानां॑ भवति॒ य ए॒वं वेद॑
तस्या॒ इन्द्रो॑ व॒त्स आसी॑द् गाय॒त्र्यऽभि॒धान्य॒भ्रमूधः॑
सोद॑क्राम॒त् सा दे॒वानाग॑च्छ॒त् तां दे॒वा अ॑घ्नत॒ सार्ध॑मा॒से सम॑भवत्
सोद॑क्राम॒त् सा पि॒तॄ॒नाग॑च्छत् तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑
सोद॑क्राम॒त् सा ग॑न्धर्वाप्स॒रस॒ आग॑च्छत् तां ग॑न्धर्वाप्स॒रस॒ उपा॑ह्वयन्त॒ पुण्य॑गन्ध॒ एहीति॑
(३०)