Atharva Veda
Kaanda 7, Sukta 38, Verse 1
केवलः पतिः ।
इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम् ।
प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम्
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
केवलः पतिः ।
इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम् ।
प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम्
येना॑ निच॒क्र आ॑सु॒रीन्द्रं॑ दे॒वेभ्य॒स्परि॑ ।
तेना॒ नि कु॑र्वे॒ त्वाम॒हं यथा॒ तेऽसा॑नि॒ सुप्रि॑या
प्र॒तीची॒ सोम॑मसि प्र॒तीच्यु॒त सूर्य॑म् ।
प्र॒तीची॒ विश्वा॑न् दे॒वान् तां त्वा॒च्छाव॑दामसि
अ॒हं व॑दामि॒ नेत् त्वं स॒भाया॒मह॒ त्वं वद॑ ।
ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न
यदि॒ वासि॑ तिरोज॒नं यदि॑ वा न॒द्यऽस्ति॒रः ।
इ॒यं ह॒ मह्यं॒ त्वामोष॑धिर्ब॒द्ध्वेव॒ न्यान॑यत्