Atharva Veda
Kaanda 6, Sukta 139, Verse 1
सौभाग्यवर्धनम् ।
न्य॒स्ति॒का रु॑रोहिथ सुभगं॒कर॑णी॒ मम॑ ।
श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्निता॒नाः ॥
तया॑ सहस्रप॒र्ण्या हृद॑यं शोषयामि ते
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
सौभाग्यवर्धनम् ।
न्य॒स्ति॒का रु॑रोहिथ सुभगं॒कर॑णी॒ मम॑ ।
श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्निता॒नाः ॥
तया॑ सहस्रप॒र्ण्या हृद॑यं शोषयामि ते
शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शुष्यत्वा॒स्यऽम् ।
अथो॒ नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर
सं॒वन॑नी समुष्प॒ला बभ्रु॒ कल्या॑णि॒ सं नु॑द ।
अमूं च॒ मां च॒ सं नु॑द समा॒नं हृद॑यं कृधि
यथो॑द॒कमप॑पुषोऽप॒शुष्य॑त्या॒स्यऽम् ।
ए॒वा नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर
यथा॑ नकु॒लो वि॒च्छिद्य॑ सं॒दधा॒त्यहिं॒ पुनः॑ ।
ए॒वा काम॑स्य॒ विच्छि॑न्नं॒ सं धे॑हि वीर्यावति