Atharva Veda
Kaanda 6, Sukta 137, Verse 1
केशवर्धनम् ।
यां ज॒मद॑ग्नि॒रख॑नद् दुहि॒त्रे के॑श॒वर्ध॑नीम् ।
तां वी॒तह॑व्य॒ आभ॑र॒दसि॑तस्य गृ॒हेभ्यः॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
केशवर्धनम् ।
यां ज॒मद॑ग्नि॒रख॑नद् दुहि॒त्रे के॑श॒वर्ध॑नीम् ।
तां वी॒तह॑व्य॒ आभ॑र॒दसि॑तस्य गृ॒हेभ्यः॑
अ॒भीशु॑ना॒ मेया॑ आसन् व्या॒मेना॑नु॒मेयाः॑ ।
केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑
दृंह॑ मूल॒माग्रं॑ यच्छ॒ वि मध्यं॑ यामयौषधे ।
केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑