Atharva Veda
Kaanda 6, Sukta 134, Verse 1
शत्रुनाशनम् ।
अ॒यं वज्र॑स्तर्पयतामृ॒तस्यावा॑स्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम् ।
शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनाशनम् ।
अ॒यं वज्र॑स्तर्पयतामृ॒तस्यावा॑स्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम् ।
शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑
अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत् सृपत् ।
वज्रे॒णाव॑हतः शयाम्
यो जि॒नाति॒ तमन्वि॑च्छ यो जि॒नाति॒ तमिज्ज॑हि ।
जि॒न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय