Atharva Veda
Kaanda 6, Sukta 132, Verse 1
स्मरः ।
यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१न्तः शोशु॑चानं स॒हाध्या ।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्मरः ।
यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१न्तः शोशु॑चानं स॒हाध्या ।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा
यं विश्वे॑ दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्व१न्तः शोशु॑चानं स॒हाध्या ।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा
यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्व॑१न्तः शोशु॑चानं स॒हाध्या ।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा
यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्व॑१न्तः शोशु॑चानं स॒हाध्या ।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा
यं मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्व॑१न्तः शोशु॑चानं स॒हाध्या ।
तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा