Atharva Veda
Kaanda 6, Sukta 128, Verse 1
राजा
श॒क॒धूमं॒ नक्ष॑त्राणि॒ यद् राजा॑न॒मकु॑र्वत ।
भ॒द्रा॒हम॑स्मै॒ प्राय॑च्छन्नि॒दं रा॒ष्ट्रमसा॒दिति॑
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
राजा
श॒क॒धूमं॒ नक्ष॑त्राणि॒ यद् राजा॑न॒मकु॑र्वत ।
भ॒द्रा॒हम॑स्मै॒ प्राय॑च्छन्नि॒दं रा॒ष्ट्रमसा॒दिति॑
भ॒द्रा॒हं नो॑ म॒ध्यंदि॑ने भद्रा॒हं सा॒यम॑स्तु नः ।
भ॒द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः
अ॒हो॒रा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम् ।
भ॒द्रा॒हम॒स्मभ्यं॑ राज॒न्छक॑धूम॒ त्वं कृ॑धि
यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॒मथो॒ दिवा॑ ।
तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑