Atharva Veda
Kaanda 6, Sukta 118, Verse 1
आनृण्यम् ।
यद्धस्ता॑भ्यां चकृ॒म किल्बि॑षाण्य॒क्षानां॑ ग॒त्नुमु॑प॒लिप्स॑मानाः ।
उ॒ग्रं॒प॒श्ये उ॑ग्र॒जितौ॒ तद॒द्याप्स॒रसा॒वनु॑ दत्तामृ॒णं नः॑
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
आनृण्यम् ।
यद्धस्ता॑भ्यां चकृ॒म किल्बि॑षाण्य॒क्षानां॑ ग॒त्नुमु॑प॒लिप्स॑मानाः ।
उ॒ग्रं॒प॒श्ये उ॑ग्र॒जितौ॒ तद॒द्याप्स॒रसा॒वनु॑ दत्तामृ॒णं नः॑
उग्रं॑पश्ये॒ राष्ट्र॑भृ॒त् किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑ दत्तं न ए॒तत् ।
ऋ॒णान्नो॒ नर्णमेर्त्स॑मानो य॒मस्य॑ लो॒के अधि॑रज्जु॒रा॑यत्
यस्मा॑ ऋ॒णं यस्य॑ जा॒यामु॒पैमि॒ यं याच॑मानो अ॒भ्यैमि॑ देवाः ।
ते वाचं॑ वादिषु॒र्मोत्त॑रां॒ मद्देव॑पत्नी॒ अप्स॑रसा॒वधी॑तम्