Atharva Veda
Kaanda 6, Sukta 115, Verse 1
पापमोचनम् ।
यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम् ।
यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
पापमोचनम् ।
यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम् ।
यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः
यदि॒ जाग्र॒द् यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम् ।
भू॒तं मा॒ तस्मा॒द् भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम्
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव ।
पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः