Atharva Veda
Kaanda 6, Sukta 113, Verse 1
पापनाशनम् ।
त्रि॒ते दे॒वा अ॑मृजतै॒तदेन॑स्त्रि॒त ए॑नन्मनु॒ष्येऽषु ममृजे ।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
पापनाशनम् ।
त्रि॒ते दे॒वा अ॑मृजतै॒तदेन॑स्त्रि॒त ए॑नन्मनु॒ष्येऽषु ममृजे ।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु
मरी॑चीर्धू॒मान् प्र वि॒शानु॑ पाप्मन्नुदा॒रान् गच्छो॒त वा॑ नीहा॒रान् ।
न॒दीनां॒ फेनाँ॒ अनु॒ तान् वि न॑श्य भ्रूण॒घ्नि पू॑षन् दुरि॒तानि॑ मृक्ष्व
द्वा॒द॒श॒धा निहि॑तं त्रि॒तस्याप॑मृष्टं मनुष्यैन॒सानि॑ ।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु