Atharva Veda
Kaanda 6, Sukta 111, Verse 1
उन्मत्ततामोचनम् ।
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति ।
अतोऽधि॑ ते कृणवद् भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
उन्मत्ततामोचनम् ।
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति ।
अतोऽधि॑ ते कृणवद् भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति
अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम् ।
कृ॒णोमि॑ वि॒द्वान् भे॑ष॒जं यदानु॑न्मदि॒तोऽस॑सि
दे॒वै॒न॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑ ।
कृ॒णोमि॑ वि॒द्वान् भे॑ष॒जं यदानु॑न्मदि॒तोऽस॑ति
पुन॑स्त्वा दुरप्स॒रसः॒ पुन॒रिन्द्रः॒ पुन॒र्भगः॑ ।
पुन॑स्त्वा दु॒र्विश्वे॑ दे॒वा यथानु॑न्मदि॒तोऽस॑सि