Atharva Veda
Kaanda 6, Sukta 104, Verse 1
शत्रुनाशनम् ।
आ॒दाने॑न सं॒दाने॑ना॒मित्रा॒ना द्या॑मसि ।
अ॒पा॒ना ये चै॑षां प्रा॒णा असु॒नासू॒न्त्सम॑च्छिदन्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनाशनम् ।
आ॒दाने॑न सं॒दाने॑ना॒मित्रा॒ना द्या॑मसि ।
अ॒पा॒ना ये चै॑षां प्रा॒णा असु॒नासू॒न्त्सम॑च्छिदन्
इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम् ।
अ॒मित्रा॒ येऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम्
ऐना॑न् द्यतामिन्द्रा॒ग्नी सोमो॑ राजा॑ च मे॒दिनौ॑ ।
इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः