Atharva Veda
Kaanda 6, Sukta 100, Verse 1
विषदूषणम् ।
दे॒वा अ॑दुः॒ सूर्यो॑ अदाद् द्यौर॑दात् पृथि॒व्यऽदात् ।
ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम्
Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.
विषदूषणम् ।
दे॒वा अ॑दुः॒ सूर्यो॑ अदाद् द्यौर॑दात् पृथि॒व्यऽदात् ।
ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम्
यद् वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न् धन्व॑न्युद॒कम् ।
तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम्
असु॑राणां दुहि॒तासि॒ सा दे॒वाना॑मसि॒ स्वसा॑ ।
दि॒वस्पृ॑थि॒व्याः संभू॑ता॒ सा च॑कर्थार॒सं वि॒षम्